दिद्विशुर्दुद्युवुश्चच्छुश्चक्लमुः सुषुपुर्हताः । चखादिरे चखादुश्च विलेपुश्च रणे भटाः ॥
Metre: अनुष्टुप्
प्रहस्तस्य पुरो-मात्यान्जिहिंसुर्दधृषुस्तथा । वानराः कर्म सेनानी रक्षसां चक्षमे ने तत् ॥
Metre: अनुष्टुप्
ऊर्णुनाव स शस्त्रौघैर्वानराणामनीकिनीम् । शशास च बहून्योधान्जीवितेन विवेच च ॥
Metre: अनुष्टुप्
आससञ्ज भयं तेषां दिद्युते च यथा रविः । नाऽऽययास द्विषद्-देहैर्जगाहे च दिशो दश ॥
Metre: अनुष्टुप्
केचित्संचुकुटुर्भीता लेजिरेऽन्ये पराजिताः । संग्रामाद्बभ्रशुः केचिद्ययाचुश्चाऽपरेऽभयम् ॥
Metre: अनुष्टुप्
एवं विजिग्ये तां सेनां प्रहस्तोऽतिददर्प च । शशाम न च संक्रुद्धो निर्जुगोप निशाचरान् ॥
Metre: अनुष्टुप्
चुक्रुधे तत्र नीलेन तरुश्चोच्चिक्षिपे महान् । प्रहस्तोऽभिहतस्तेन बाणान्विससृजे बहून् ॥
Metre: अनुष्टुप्
सेहे कपी रथाऽश्वांश्च रिपोस्ततर्ह शाखिना । धरित्रीं मुसली तेये प्रहस्तश्चिखिदे न च ॥
Metre: अनुष्टुप्
संदुधुक्षे तयोः कोपः पस्फाये शस्त्र-लाघवम् । नुनोद शाखिनं नील आवव्रे मुसली तरुम् ॥
Metre: अनुष्टुप्
वियत्यानभ्रतुर्भूमौ मण्डलानि विचेरतुः । प्रदुद्रुवतुरन्योन्यं वीरौ शश्रमतुर्न च ॥
Metre: अनुष्टुप्