डुढौकिरे पुनर्लङ्कां बुबुधे तान्दशाननः । जीवतश्च विवेदाऽरीन्बभ्रंशेऽसौ धृतेस्ततः ॥
Metre: अनुष्टुप्
सस्रंसे शर-बन्धेन दिव्येनेति बुबुन्द सः । बभाजाऽथ परं मोहमूहांचक्रे जयं न च ॥
Metre: अनुष्टुप्
घूम्राक्षोऽथ प्रतिष्ठासांचक्रे रावण-संमतः । सिंहाऽऽस्यैर्युयुजे तस्य वृकाऽऽस्यैश्च रथः खगैः ॥
Metre: अनुष्टुप्
त्वक्-त्रैः संविव्ययुर्देहान्वाहनान्यधिशिश्यिरे ।आनर्जुर्नृ-भुजोऽस्त्राणि ववञ्चुश्चाऽऽहव-क्षितिम् ॥
Metre: अनुष्टुप्
अध्युवास रथं तेये पुराच्चुक्षाव चाऽशुभम् । संश्रावयांचकाराऽऽख्यां धूम्राक्षस्तत्वरे तथा ॥
Metre: अनुष्टुप्
निलिल्ये मूर्ध्नि गृध्रोऽस्य क्रूरा ध्वाङ्क्षा विवाशिरे । शिशीके शोणितं व्योम चचाल क्ष्मा-तलं तथा ॥
Metre: अनुष्टुप्
ततः प्रजघटे युद्धं शस्त्राण्यासुः परस्परम् । वव्रश्चुराजुघूर्णुश्च स्येमुश्चुकूर्दिरे तथा ॥
Metre: अनुष्टुप्
रुरुजुर्भ्रेजिरे फेणुर्बहुधा हरि-राक्षसाः । वीरा न बिभयांचक्रुर्भीषयांचक्रिरे परान् ॥
Metre: अनुष्टुप्
रत्तं प्रचुश्चुतुः क्षण्णाः शिश्वियुर्बाण-विक्षताः ।अस्यतां शुशुवुर्बाणान्भुजाः साऽङ्गुष्ठ-मुष्टयः ॥
Metre: अनुष्टुप्
रणे चिक्रीड धूम्राक्षस्तं ततर्जाऽनिलाऽऽत्मजः ।आददे च शिलां साऽश्वं पिपेषाऽस्य रथं तया ॥
Metre: अनुष्टुप्