कुमारसम्भवम्
Keyboard Shortcuts:
← → Navigate verses |
Ctrl +← Ctrl +→ Navigate pages |
↑ ↓ Navigate chapters |
M Toggle meter |
C Toggle commentary |
A Toggle anvaya |
T Toggle translation |
P Toggle parallel |
S Search |
B Bookmark
Copy Link
तस्यात्मा शितिकण्ठस्य सैनापत्यमुपेत्य वः । मोक्ष्यते सुरबन्दीनां वेणीर्वीर्यविभूतिभिः ॥
Anvaya: तस्य शितिकण्ठस्य आत्मा वः सैनापत्यम् उपेत्य वीर्यविभूतिभिः सुरबन्दीनां वेणीः मोक्ष्यते ।
Metre: अनुष्टुप्
इति व्याहृत्य विबुधान्विश्वयोनिस्तिरोदधे । मनस्याहितकर्तव्यास्तेऽपि प्रतिययुर्दिवम् ॥
Anvaya: विश्वयोनिः विबुधान् इति व्याहृत्य तिरोदधे । देवा अपि मनसि आहितकर्तव्याः (सन्तः) दिवं ययुः ।
Metre: अनुष्टुप्
तत्र निश्चित्य कन्दर्पमगमत्पाकशासनः । मनसा कार्यसंसिद्धित्वराद्विगुणरंहसा ॥
Anvaya: पाकशासनः तत्र कन्दर्पं निश्चित्य कार्यसिद्धौ त्वराद्विगुणरंहसा मनसा अगमत् ।
Metre: अनुष्टुप्
अथ स ललितयोषिद्भ्रूलताचारुशृङ्गं रतिवलयपदाङ्के चापमासज्य कण्ठे । सहचरमधुहस्तन्यस्तचूताङ्कुरास्त्रः शतमखमुपतस्थे प्राञ्जलिः पुष्पधन्वा ॥
Anvaya: अथ स पुष्पधन्वा ललितयोषिद्भ्रूलताचारुश्रृङ्गं चापं रतिवलयपदाङ्के कण्ठे आसज्य सहचरमधुहस्तन्यस्तचूताऽङ्कुराऽस्त्रः प्राञ्जलिः (सन्) शतमखम् उपतस्थे ।
Metre: मालिनी
तस्मिन्मघोनस्त्रिदशान्विहाय सहस्रमक्ष्णां युगपत्पपात । प्रयोजनापेक्षितया प्रभूणां प्रायश्चलं गौरवमाश्रितेषु ॥
Anvaya: मघोन अक्ष्णां सहस्त्रं त्रिदशान् विहाय तस्मिन् युगपत् पपात । प्रायः प्रभूणाम् आश्रितेषु गौरवं प्रयोजनाऽपेक्षितया चलम् ।
Metre: उपजातिः
स वासवेनासनसंनिकृष्टमितो निषीदेति विसृष्टभूमिः । भर्तुः प्रसादं प्रतिनन्द्य मूर्ध्ना वक्तुं मिथः प्राक्रमतैवमेनम् ॥
Anvaya: स वासवेन आसनसन्निकृष्टम् इतो निषीद इति विसृष्टभूमिः (सन्) भर्तुः प्रसादं मूर्ध्ना प्रतिनन्द्य मिथः एनम् एवं वक्तुं प्राक्रमत ।
Metre: उपजातिः
आज्ञापय ज्ञातविशेष पुंसां लोकेषु यत्ते करणीयमस्ति । अनुग्रहं संस्मरणप्रवृत्तमिच्छामि संवर्धितमाज्ञया ते ॥
Anvaya: हे पुंसां ज्ञातविशेष ! आज्ञापय, लोकेषु ते यत् करणीयम् अस्ति, संस्मरणप्रवृत्तं ते अनुग्रहम् आज्ञया संवर्द्धितम् इच्छामि ।
Metre: उपजातिः
केनाभ्यसूया पदकाङ्क्षिणा ते नितान्तदीर्घैर्जनिता तपोभिः । यावद्भवत्याहितसायकस्य मत्कार्मुकस्यास्य निदेशवर्ती ॥
Anvaya: हे प्रभो ! ते पदकाङ्क्षिणा केन नितान्तदीर्घैः तपोभिः अभ्यसूया जनिता । (तं ब्रूहि) (सः) आहितसायकस्य अस्य मत्कार्मुकस्य निदेशवर्ती भवति ।
Metre: उपजातिः
असंमतः कस्तव मुक्तिमार्गं पुनर्भवक्लेशभयात्प्रपन्नः । बद्धश्चिरं तिष्ठतु सुन्दरीणामारेचितभ्रूचतुरैः कटाक्षैः ॥
Anvaya: (हे प्रभो !) तव असम्मतः कः पुनर्भवक्लेशभयात् मुक्तिमार्गं प्रपन्नः ? (यावत् सः) आरेचितभ्रूचतुरैः सुन्दरीणां कटाक्षैः बद्धः (सन्) चिरं तिष्ठतु ।
Metre: उपजातिः
अध्यापितस्योशनसापि नीतिं प्रयुक्तरागप्रणिधिर्द्विषस्ते । कस्यार्थधर्मौ वद पीडयामि सिन्धोस्तटावोघ इव प्रवृद्धः ॥
Anvaya: उशनसा नीतिम् अध्यापितस्य अपि ते कस्य द्विषः अर्थधर्मौ प्रयुक्तरागप्रणीधिः (सन्) अहं प्रवृद्धः ओघः सिन्धोः तटौ इव पीडयामि ? वद ।
Metre: उपजातिः