कुमारसम्भवम्
Keyboard Shortcuts:
← → Navigate verses |
Ctrl +← Ctrl +→ Navigate pages |
↑ ↓ Navigate chapters |
M Toggle meter |
C Toggle commentary |
A Toggle anvaya |
T Toggle translation |
P Toggle parallel |
S Search |
B Bookmark
Copy Link
तेन भङ्गिविषमोत्तरच्छदं मध्यपिण्डितविसूत्रमेखलम् । निर्मलेऽपि शयनं निशात्यये नोज्झितं चरणरागलाञ्छितम् ॥
Anvaya: निशात्यये अपि तेन भिन्नविषमोत्तरच्छदं मध्यपिण्डितविसूत्रमेखलं (तथा) चरणरागलाञ्छितं शयनं न उज्झितम् ।
Metre: रथोद्धता
स प्रियामुखरसं दिवानिशं हर्षवृद्धिजननं सिषेविषुः । दर्शनप्रणयिनामदृश्यतामाजगाम विजयानिवेदनात् ॥
Anvaya: हर्षवृद्धिजननं प्रियामुखरसं दिवानिशं सिसेविषुः (सन्) विजयानिवेदितः दर्शनप्रणयिनाम् अदृश्यताम् आजगाम ।
Metre: रथोद्धता
समदिवसनिशीथं सङ्गिनस्तत्र शम्भोः शतमगमद् ऋतूनां साग्रमेका निशेव । न तु सुरतसुखेषु छिन्नतृष्णो बभूव ज्वलन इव समुद्रान्तर्गतस्तज्जलेषु ॥
Anvaya: समदिवसनिशीथं तत्र सङ्गिनः शम्भोः साग्रम् ऋतूनां शतम् एका निशा इव अगमत् । स समुद्राऽन्तर्गतः ज्वलन इव जलोघैः छिन्नतृष्णो न बभूव ।
Metre: मालिनी