कुमारसम्भवम्
Keyboard Shortcuts:
← → Navigate verses |
Ctrl +← Ctrl +→ Navigate pages |
↑ ↓ Navigate chapters |
M Toggle meter |
C Toggle commentary |
A Toggle anvaya |
T Toggle translation |
P Toggle parallel |
S Search |
B Bookmark
Copy Link
तत्क्षणं विपरिवर्तितह्रियोर्नेष्यतोः शयनमिद्धरागयोः । सा बभूव वशवर्तिनी द्वयोः शूलिनः सुवदना मदस्य च ॥
Anvaya: सुवदना तत्क्षणं विपरिवर्तितह्रियोः शयनं नेष्यतोः इद्धरागयोः शूलिनो मदस्य च वशवर्तिनी बभूव ।
Metre: रथोद्धता
घूर्णमाननयनं स्खलत्कथं स्वेदिबिन्दुमदकारणस्मितम् । आननेन न तु तावदीश्वरश्चक्षुषा चिरमुमामुखं पपौ ॥
Anvaya: ईश्वरो घूर्णमाननयनं स्खलत्कथं स्वेदबिन्दुमत् अकारणस्मितम् उमामुखं तावत् आननेन न पपौ चक्षुषा चिरं पपौ ।
Metre: रथोद्धता
तां विलम्बितपनीयमेखलामुद्वहञ्जघनभारदुर्वहाम् । ध्यानसंभृतविभूतिरीश्वरः प्राविशन्मणिशिलागृहं रहः ॥
Anvaya: हरः विलम्बितपनीयमेखलां जघनभारदुर्वहां ताम् उद्वहन् ध्यानसंभूतविभूतिः रहः मणिशिलागृहं प्राविशत् ।
Metre: रथोद्धता
तत्र हंसधवलोत्तरच्छदं जाह्नवीपुलिनचारुदर्शनम् । अध्यशेत शयनं प्रियासखः शारदाभ्रमिव रोहिणीपतिः ॥
Anvaya: रोहिणीपतिः शारदाऽभ्रम् इव तत्र हंसधवलोत्तरच्छदं जाह्नवीपुलिनचारुदर्शनं शयनं प्रियासखः सन् अध्यशेत ।
Metre: रथोद्धता
क्लिष्टकेशमवलुप्तचन्दनं व्यत्ययार्पितनखं समत्सरम् । तस्य तच्छिदुरमेखलागुणं पार्वतीरतमभून्न तृप्तये ॥
Anvaya: अदयैः कचगृहैः क्लिष्टचन्द्रम् उत्पथाऽर्पितनखं समत्सरं छिदुरमेखलागुणं तत् पार्वतीरतं तस्य तृप्तये न अभूत् ।
Metre: रथोद्धता
केवलं प्रियतमादयालुना ज्योतिषामवनतासु पङ्क्तिषु । तेन तत्परिगृहीतवक्षसा नेत्रमीलनकुतूहलं कृतम् ॥
Anvaya: प्रियतमादयालुना केवलं तत्प्रतिगृहीतवक्षसा तेन ज्योतिषां पङ्क्तिषु अवनतासु (सतीषु) नेत्रमीलनकुतूहलं कृतम् ।
Metre: रथोद्धता
स व्यबुध्यत बुधस्तवोचितः शतकुम्भकमलाकरैः समम् । मूर्च्छनापरिगृहीतकैशिकैः किन्नरैरुषसि गीतमङ्गलः ॥
Anvaya: बुधस्तवोचितः स उषसि मूर्च्छनापरिगृहीतकैशिकैः किन्नरैः गीतमङ्गलः (सन्) शातकुम्भकमलाकरैः समं व्यबुध्यत ।
Metre: उपजातिः
तौ क्षणं शिथिलितोपगूहनौ दम्पती चलितमानसोर्मयः । पद्मभेदपिशुनाः सिषेविरे गन्धमादनवनान्तमारुताः ॥
Anvaya: शिथिलितोपगूहनौ दम्पती तौ रचितमानसोर्मयः पद्मबोधनिपुणाः गन्धमादनवनाऽन्तमारुताः क्षणं सिषेविरे ।
Metre: रथोद्धता
ऊरुमूलनखमार्गराजिभिस्तत्क्षणं हृतविलोचनो हरः । वाससः प्रशिथिलस्य संयमं कुर्वतीं प्रियतमामवारयत् ॥
Anvaya: तत्क्षणम् ऊरुमूलनखमार्गराजिभिः हृतविलोचनः हरः प्रशिथिलस्य वाससः संयमं कुर्वतीं प्रियतमाम् अवारयत् ।
Metre: रथोद्धता
स प्रजागरकषायलोचनं गाढदन्तपदताडिताधरम् । आकुलालकमरंस्त रागवान्प्रेक्ष्य भिन्नतिलकं प्रियामुखम् ॥
Anvaya: रागवान् स प्रजागरकषायलोचनं गाढदन्तपदताडिताऽधरम् आकुलाऽलकं भिन्नतिलकं प्रियामुखं प्रेक्ष्य अरंस्त ।
Metre: रथोद्धता