कुमारसम्भवम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

कुमारसम्भवम्

Disable Parallel


Showing 141 to 150 of 613 verses
Verse 17
गुरोर्नियोगाच्च नगेन्द्रकन्या स्थाणुं तपस्यन्तमधित्यकायाम् । अन्वास्त इत्यप्सरसां मुखेभ्यः श्रुतं मया मत्प्रणिधिः स वर्गः ॥
Anvaya:
नगेन्द्रकन्या च गुरोः नियोगात् अधित्यकायां तपस्यन्तं स्थाणुम् अन्वास्ते इति मया अप्सरसां मुखेभ्यः श्रुतं, स वर्गः मत्प्रणीधिः ।
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): गुरोरिति ॥ नगेन्द्रकन्या पार्वती च गुरोः पितुर्नियोगाच्छासनादधित्यकायां हिमाद्रेरुर्ध्वभूमौ । `भूमिरुर्ध्वमधित्यका` इत्यमरः । `उपाधिभ्यां त्यकन्नासन्नारुढयोः` इति त्यकन्प्रत्ययः । तपस्यन्तं तपश्चरन्तम् `कर्मणो रोमन्थतपोभ्यां वर्तिचरोः` (पा.3|1|15) इति क्यङप्रत्ययः । ततः शतृप्रत्ययः । स्थाणुं रुद्रमध्वास्ते । उपास्ते इत्यर्थः । इतीदं मयाप्सरसां मुखेभ्यः श्रुतम् । न चैतदैतिह्यमात्रमित्याह- स वर्गः सोऽप्सरसां गणो मत्प्रणिधिर्मम गूढचरः । `प्रणिधिः प्रार्थने चर` इति यादवः

Verse 18
तद्गच्छ सिद्ध्यै कुरु देवकार्यमर्थोऽयमर्थान्तरभाव्य एव । अपेक्षते प्रत्ययमुत्तमं त्वां बीजाङ्कुरः प्रागुदयादिवाम्भः ॥
Anvaya:
तत् सिद्ध्यै गच्छ । देवकार्यं कुरु । अयम् अर्थः अर्थान्तरभाव्य एव । बीजाऽङ्कुरः उदयात् प्राक् अम्भ इव त्वाम् उत्तमं प्रत्ययम् अपेक्षते ।
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तदिति ॥ तत्तस्मात्सिद्ध्यै कार्यसिद्ध्यर्थं गच्छ । देवकार्यं कुरु । आशिषि लोट् । अयमर्थः प्रयोजनमर्थान्तरभाव्यः कारणान्तरसाध्य एव । तच्च कारणान्तरं पार्वतीसंनिधानमिति भावः । `अर्थः प्रकारे विषये वित्तकारणवस्तुषु । अभिधेये च शब्दानां वृत्तौ चापि प्रयोजने ।` इति विश्वः । तथापि बीजसाध्योऽङ्कुरो बीजाङ्कुर उदयादुत्पतेः प्रागम्भ इव त्वामुत्तमं प्रत्ययं चरमं कारणमपेक्षते । `प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु` इत्यमरः (अ.को.3|3|156) । तस्मादस्मिन्नर्थे तव चरमसहकारित्वादनन्यसाध्योऽयमर्थ इति भावः

Verse 19
तस्मिन्सुराणां विजयाभ्युपाये तवैव नामास्त्रगतिः कृती त्वम् । अप्यप्रसिद्धं यशसे हि पुंसामनन्यसाधारणमेव कर्म ॥
Anvaya:
सुराणां विजयाभ्युपाये तस्मिन् अस्त्रगतिः तव एव नाम । अतः त्वं कृती । हि अप्रसिद्धम् अपि अनन्यसाधारणम् एव कर्म पुंसां यशसे भवति ।
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तस्मिन्निति ॥ सुराणां विजयाभ्युपाये जयस्योपायभूते तस्मिन्हरेऽस्त्रप्रसरस्तवैव नाम । नामेति संभावनायाम् । अन्येषां तु संभावनापि नास्तीति भावः । अतस्त्वं कृती कृतार्थः । तथाहि । अप्रसिद्धमप्यनन्यसाधारणमेव कर्म पुंसां यशसे हि । इदं तु प्रसिद्धमसाधारणं चेत्यतियशस्करमिति भावः

Verse 20
सुराः समभ्यर्थयितार एते कार्यं त्रयाणामपि विष्टपानाम् । चापेन ते कर्म न चातिहिंस्रमहो बतासि स्पृहणीयवीर्यः ॥
Anvaya:
एते सुराः समभ्यर्थयितारः । कार्यं त्रयाणाम् अपि विष्टपानाम् । कर्म ते चापेन, अतिहिंस्त्रं च न । अहो बत ! स्पृहणीयवीर्यः असि ।
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): सुरा इति ॥ एते सुराः समभ्यर्ययितारो याचितारः । कार्यं प्रयोजनं त्रयाणां विष्टपानामपि संबन्धि । सर्वलोकार्थमित्यर्थः। कर्म ते तव चापेन । न त्वन्येनेति भावः । अतिहिंस्त्रमतिघातुकं च न। अहो बत इति संबोधने । `अहो बतानुकम्पायां खेदे संबोधनेऽपि च` इति विश्वः । अथवा अहो आश्चर्ये । बतेत्यामन्त्रणे संतोषे चेति । `बतामन्त्रणसंतोषखेदानुक्रोशविस्मये` । इति विश्वः । स्पृहणीयं च इति नानार्थकोषः

Verse 21
मधुश्च ते मन्मथ साहचर्यादासवनुक्तोऽपि सहाय एव । समीरणो नोदयिता भवेति व्यादिश्यते केन हुताशनस्य ॥
Anvaya:
हे मन्मथ ! असौ मधुश्च ते साहचर्यात् अनुक्तोऽपि सहाय एव । समीरणो हुताऽशनस्य नोदयिता भवेति केन व्यादिश्यते ?
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): मधुरिति ॥ हे मन्मथ ! असौ मधुश्च वसन्तोऽपि ते साहचर्यात्सहचरत्वादेवानुक्तोऽप्यप्रेरितोऽपि सहायः सहकार्येव । तथाहि । समीरणो वायुहुताशनस्याग्नेर्नोदयिता प्रेरको भवेति केन व्यादिश्यते । अत्र मधुसमीरणयोरुक्तिमन्तरेण सहायताकरणं सामान्यधर्मः । स च वाक्यद्वये वस्तुप्रतिवस्तुभावेन पृथङ्निर्दिष्ट इति प्रतिवस्तूपमालंकारोऽयम्। तदुक्तम्-- `यत्र सामान्यनिर्देशः पृथग्वाक्यद्वये यदि । गम्यौपम्याश्रिता सा स्यात्प्रतिवस्तूपमा मता ॥` इति

Verse 22
तथेति शेषामिव भर्तुराज्ञामादाय मूर्ध्ना मदनः प्रतस्थे । ऐरावतास्फालनकर्कशेन हस्तेन पस्पर्श तदङ्गमिन्द्रः ॥
Anvaya:
`तथा` इति भर्तुः शेषाम् इव आज्ञां मूर्ध्ना आदाय मदनः प्रतस्थे । इन्द्रः ऐरावतास्फालनकर्कशेन हस्तेन तदङ्गं पस्पर्श ।
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तथेति ॥ तथास्त्विति भर्तुः स्वामिनः शेषामिव प्रसाददत्तां मालामिव । `प्रसादान्निजनिर्माल्यदाने शेषेति कीर्तिता` । इति विश्वः । `माल्याक्षतादिदाने स्त्री शेषा` इति वैजयन्तीकेशवौ । आज्ञां मूर्ध्नादाय शिरसा गृहीत्वा मदनः प्रतस्थे ।`समवप्रविभ्यः स्थः` (पा.1|3|22) इत्यात्मनेपदम् । इन्द्र ऐरावतास्फालनेन प्रोत्साहनार्थेन ताडनेन कर्कशेन परुषेण हस्तेन तदङ्गं मदनदेहं पस्पर्श । हस्तस्पर्शेन संभावयामासेत्यर्थः ।`शेषामिवाज्ञाम्` इत्यत्र साधकबाधकप्रमाणाभावादुपमोत्प्रेक्षयोः संदेहसंकर इति । यदि भर्त्रा शेषापि दत्ता तदा तामाज्ञामिवेत्युपमा । अथ न दत्ता तर्हि शेषात्वेनोत्प्रेक्षिता । शेषादानं तु संदिग्धमिति

Verse 23
स माधवेनाभिमतेन सख्या रत्या च साशङ्कमनुप्रयातः । अङ्गव्ययप्रार्थितकार्यसिद्धिः स्थाण्वाश्रमं हैमवतं जगाम ॥
Anvaya:
सः अभिमतेन सख्या माधवेन रत्या च साशङ्कम् अनुप्रयातः (सन्) अङ्गव्ययप्रार्थितकार्यसिद्धिः हैमवतं स्थाण्वाश्रमं जगाम ।
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): स इति ॥ स मदनोऽभिमतेन प्रियेण सख्या सुहृदा माधवेन वसन्तेन रत्या स्वदेव्या च साशङ्कं संकटमापतितमिति सभयमनुप्रयातः सन् । तथाङ्गस्य व्ययेनापि प्रार्थिता कार्यसिद्धिर्येन स तथोक्तः । शीर्त्वा मृत्वापि सर्वथा देवकार्यं साधयिष्यामीति कृतनिश्चयः सन्नित्यर्थः । हैमवतं हिमवति भवं स्थाणो रुद्रस्याश्रमं जगाम

Verse 24
तस्मिन्वने संयमिनां मुनीनां तपःसमाधेः प्रतिकूलवर्ती । संकल्पयोनेरभिमानभूतमात्मानमाधाय मधुर्जजृम्भे ॥
Anvaya:
तस्मिन् वने संयमिनां मुनीनां तपःसमाधेः प्रतिकूलवर्तो मधुः सङ्कल्पयोनेः अभिमानभूतम् आत्मानम् आधाय जजृम्भे ।
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तस्मिन्निति ॥ तस्मिन्वने स्थाण्वाश्रमे संयमिनां समाधिमतां मुनीनां तपसः समाधेरेकाग्रतायाः प्रतिकूलं वर्तते इति प्रतिकूलवर्ती विरोधी मधुर्वसन्तः संकल्पयोनोर्मनोभवस्याभिमानभूतम् । गर्वहेतुभूतमित्यर्थः । कार्यकारणयोरभेदोपचारः । आत्मानं निजस्वरुपमाधाय संनिधाय जजृम्भे प्रादुर्बभूव । वसन्तधर्मान्प्रवर्तयामासेत्यर्थः

Verse 25
कुबेरगुप्तां दिशमुष्णरश्मौ गन्तुं प्रवृत्ते समयं विलङ्घ्य । दिग्दक्षिणा गन्धवहं मुखेन व्यलीकनिःश्वासमिवोत्ससर्ज ॥
Anvaya:
उष्णरश्मौ समयं विलङ्घ्‌य कुबेरगुप्तां दिशं गन्तुं प्रवृत्ते (सति) दक्षिणा दिक्मुखेन गन्धवहं व्यलीकनिश्वासम् इव उत्ससर्ज ।
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): कुबेरेति । उष्णरश्मौ सूर्ये साहसिके च नायके समयं दक्षिणायनकालं संगमकालं च विलङ्ध्याकाण्डे व्यतिक्रम्य कुबेरगुप्तां धनपतिपालितां कुत्सितशरीरेण केनचिद्रक्षितां च दिशमुदीचीं स्त्रीलिङ्गाक्षिप्तां कांचिन्नायिकां च गन्तुं चलितुं संगन्तुं च प्रवृत्ते सति दक्षिणा दिग्दाक्षिण्यवती नायिका च मुखेनाग्रभागेन वक्त्रेण च । वहतीति वहः । पचाद्यच् । गन्धस्य वहं गन्धवहमनिलं व्यलीकेन दुःखेन निश्वासस्तं व्यलीकनिस्वासमिव । `दुःखे वैलक्ष्ये व्यलीकमप्रियाकार्यवस्तुनोः` इति वैजयन्ती । उत्ससर्ज प्रवर्तयामास । स्वभर्तरि समयोल्लङ्घनेन पराङ्गनासंगतिं प्रवृत्ते सति स्त्रियो दाक्षिण्यादकिंचिद्वदा दुःखान्निश्वसन्तीति भावः । उत्तरायणे सति मलयानिलाः प्रवृत्ताः इति वाक्यार्थः । अत्रोत्प्रेक्षालंकारः । न च समासोक्तिरेवेयमुत्प्रेक्षानुप्रविष्टेति शङ्कितव्यम् । केवलविशेषसामर्थ्यादेवाप्रस्तुतप्रतीतौ सोत्तिष्ठते । अत्र तु दक्षिणेति विशेष्यसामर्थ्यादपि नायिका प्रतीयते । नच श्लेष एव प्रकृताप्रकृतविषयः, उभयश्लेषे श्लिष्टविशेष्यानङ्गीकारात् । तस्माच्छब्दशक्तिमूलोऽयं ध्वनिः । स च व्यलीकनिश्वासरूपचेतनधर्मसंभावनार्थं दक्षिणस्या दिशो नायिकया सहाभेदमासदयन्नभेदलक्षणातिशयोक्त्युपजीविनीं निश्वासमिवेति वाच्योत्प्रेक्षां निर्वहतीति वाच्यसिद्ध्यङ्गभूत इत्युत्पश्यामः

Verse 26
असूत सद्यः कुसुमान्यशोकः स्कन्धात्प्रभृत्येव सपल्लवानि । पादेन नापैक्षत सुन्दरीणां संपर्कमासिञ्जितनूपुरेण ॥
Anvaya:
अशोकः सद्यः स्कन्धात् प्रभृति एव सपल्लवानि कुसुमानि कुसुमानि असूतः आसिञ्जितनूपुरेण सुन्दरीणां पादेन सम्पर्कं न अपैक्षत ।
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): असूतेति ॥ अशोको वृक्षविशेषः सद्यः स्कन्धात्प्रकाण्डात्प्रभृत्येव स्कन्धादारभ्येत्यर्थः । भाष्यकारवचनात्प्रभृतियोगे पञ्चमीति कैयटः । भाष्यं च `मूलात्प्रभृत्यग्राद्‌वृक्षांस्तक्ष्णुवन्ति` इति `कार्तिक्याः प्रभृत्याग्रहायणी मास` इत्यादि । सपल्लवानि कुसुमान्यसूत । उभयमप्यजीजनदित्यर्थः । आसिञ्जितो नूपुरो यस्य तेन । सिञ्जधातोः `अकर्मक--` इत्यादिना कर्तरि क्तः । सुन्दरीणां पादेन संपर्कं ताडनं नापैक्षत । `सनूपुररवेण स्त्रीचरणेनाभिताडनम् । दोहदं यदशोकस्य ततः पुष्पोद्‌गमो भवेत् ॥` इति । तथाहि- `पादाहतः प्रमदया विकसत्यशोकः शोकं जहाति बकुलो मुखसीधुसिक्तः । आलोकितः कुरुबकः कुरुते विकासमालोडितस्तिलक उत्कलिको विभाति` इति

Showing 141 to 150 of 613 verses