कुमारसम्भवम्
Keyboard Shortcuts:
← → Navigate verses |
Ctrl +← Ctrl +→ Navigate pages |
↑ ↓ Navigate chapters |
M Toggle meter |
C Toggle commentary |
A Toggle anvaya |
T Toggle translation |
P Toggle parallel |
S Search |
B Bookmark
Copy Link
कामेकपत्नीव्रतदुःखशीलां लोलं मनश्चारुतया प्रविष्टाम् । नितम्बिनीमिच्छसि मुक्तलज्जां कण्ट्ःए स्वयंग्राहनिषक्तबाहुम् ॥
Anvaya: एकपत्नीव्रतदुःखशीलां चारुतया लोलं मनः प्रविष्टां कां नितम्बिनीं मुक्तलज्जां (सतीम्) कण्ठे स्वयंग्राहनिषक्तबाहुम् इच्छसि ?
Metre: इन्द्रवज्रा
कयासि कामिन्सुरतापराधात्पादानतः कोपनयावधूतः । यस्याः करिष्यामि दृढानुतापं प्रवालशय्याशरणं शरीरम् ॥
Anvaya: हे कामिन् ! सुरताऽपराधात् पादानतः सन् कोपनया कया अवधूतः असि ? तस्याः शरीरं दृढाऽनुतापं प्रवालशय्याशरणां करिष्यामि ।
Metre: उपजातिः
प्रसीद विश्राम्यतु वीर वज्रं शरैर्मदीयैः कतमः सुरारिः । बिभेतु मोघीकृतबाहुवीर्यः स्त्रीभ्योऽपि कोपस्फुरिताधराभ्यः ॥
Anvaya: हे वीर ! प्रसीद, वज्रं विश्राम्यतु । मदीयैः शरैः मोधीकृतबाहुः वीर्यः कतमः सुराऽरिः कोपस्फुरिताऽधराभ्यः स्त्रीभ्यः अपि बिभेतु ।
Metre: उपजातिः
तव प्रसादात्कुसुमायुधोऽपि सहायमेकं मधुमेव लब्ध्वा । कुर्यां हरस्यापि पिनाकपाणेर्धैर्यच्युतिं के मम धन्विनोऽन्ये ॥
Anvaya: तव प्रसादात् कुसुमायुधः अपि (अहम्) एकं मधुम् एव सहायं लब्ध्वा पिनाकपाणेः हरस्य अपि धैर्यच्युतिं कुर्याम्, अन्ये धन्विनः मम के ।
Metre: उपजातिः
अथोरुदेशादवतार्य पादमाक्रान्तिसंभावितपादपीठम् । संकल्पिथार्थे विवृतात्मशक्तिमाखण्डलः काममिदं बभाषे ॥
Anvaya: अथ आखण्डलः ऊरुदेशात् पादम् आक्रान्तिसंभावितपादपीठम् अवतार्य सङ्कल्पिताऽर्थे विवृतात्मशक्तिं कामम् इदं बभाषे ।
Metre: उपजातिः
सर्वं सखे त्वय्युपपन्नमेतदुभे ममास्त्रे कुलिशं भवांश्च । वज्रं तपोवीर्यमहत्सु कुण्ट्ःअं त्वं सर्वतोगामि च साधकं च ॥
Anvaya: सखे ! सर्वम् एतत् त्वयि उपपन्नम्, मम कुलिशं भवांश्च उभे अस्त्रे । वज्रं तपोवीर्यमहत्सु कुण्ठम् । त्वं सर्वतोगामि साधकं च ।
Metre: इन्द्रवज्रा
अवैमि ते सारमतः खलु त्वां कार्ये गुरुण्यात्मसमं नियोक्ष्ये । व्यादिश्यते भूधरतामवेक्ष्य कृष्णेन देहोद्वहनाय शेषः ॥
Anvaya: (हे सखे !) ते सारम् अवैमि । अतः खलु आत्मसमं त्वां गुरुणि कार्ये नियोक्ष्ये । कृष्णेन भूधरताम् अवेक्ष्य शेषो देहोद्वहनाय व्यादिश्यते ।
Metre: उपजातिः
आशंसता बाणगतिं वृषाङ्के कार्यं त्वया नः प्रतिपन्नकल्पम् । निबोध यज्ञांशभुजामिदानीमुच्चैर्द्विषामीप्सितमेतदेव ॥
Anvaya: हे मित्र ! वृषाङ्के बाणगतिम् आशंसता त्वया नः कार्यं प्रतिपन्नकल्पम् । इदानीम् उच्चैर्द्विषां यज्ञांऽशभुजाम् ईप्सितम् एतत् एव निबोध
Metre: उपजातिः
अमी हि वीर्यप्रभवं भवस्य जयाय सेनान्यमुशन्ति देवाः । स च त्वदेकेषुनिपातसाध्यो ब्रह्माङ्गभूर्ब्रह्मणि योजितात्मा ॥
Anvaya: हि अमी देवाः जयाय भवस्य वीर्यप्रभवं सेनान्यम् उशन्ति । ब्रह्माऽङ्गभूः ब्रह्मणि योजितात्मा स च त्वदेकेषुनियातसाध्यः ।
Metre: उपजातिः
तस्मै हिमाद्रेः प्रयतां तनूजां यतात्मने रोचयितुं यतस्व । योषित्सु तद्वीर्यनिषेकभूमिः सैव क्षमेत्यात्मभुवोपदिष्टम् ॥
Anvaya: यतात्मने तस्मै प्रयतां हिमाऽद्रेः तनूजां रोचयितुं यतस्व । योषित्सु क्षमा तद्वीर्यनिषेकभूमिः सा एव इति आत्मभुवा उपदिष्टम् ।
Metre: उपजातिः