कुमारसम्भवम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

कुमारसम्भवम्

Enable Parallel


Showing 131 to 140 of 613 verses
Verse 7
कामेकपत्नीव्रतदुःखशीलां लोलं मनश्चारुतया प्रविष्टाम् । नितम्बिनीमिच्छसि मुक्तलज्जां कण्ट्ःए स्वयंग्राहनिषक्तबाहुम् ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): कामिति । एकः पतिर्यस्याः सैकपत्नी पतिव्रता । `नित्यं सपत्न्यादिषु` (पा.4|1|35) इति ङीप् । तस्या व्रतं पातिव्रत्यं तेन दुःखशीलां दुःखस्वभावाम् । दृढव्रतामित्यर्थः । `शीलं स्वभावे सद्‌वृत्ते` इत्यमरः । चारुतया सुन्दरत्वेन हेतुना लोलं मनस्त्वच्चितं प्रविष्टां कां नितम्बिनीं नारीं मुक्तलज्जां सतीं कण्ठे स्वयंग्राहनिषक्तबाहुम् । स्वयं गृह्णातीति स्वयंग्राहा । `विभाषा ग्रहः` (पा.3|1|143) इति णप्रत्ययः । न च जलचर एव ग्राह इति नियमः । जलचरे ग्राह एवेति नियमादिति । स्वयंग्राहा च सा निषक्तबाहुश्च तां तथाभूतामिच्छसि । त्वदर्थे पतिव्रतामपि व्रताद्‌भ्रंशयिष्यामीत्यर्थः ॥ एतच्चेन्द्रस्य पारदारिकत्वादुक्तम् । तथा च श्रुतिः-- `अहल्यायै जारः` इति
अन्वयः: एकपत्नीव्रतदुःखशीलां चारुतया लोलं मनः प्रविष्टां कां नितम्बिनीं मुक्तलज्जां (सतीम्) कण्ठे स्वयंग्राहनिषक्तबाहुम् इच्छसि ?

Verse 8
कयासि कामिन्सुरतापराधात्पादानतः कोपनयावधूतः । यस्याः करिष्यामि दृढानुतापं प्रवालशय्याशरणं शरीरम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): कयेति ॥ हे कामिन्कामुक, सुरतापराधात् । अन्यासङ्गादित्यर्थः । पादानतः प्रणतः सन् । कोपनया कोपनशीलया कया स्त्रियावधूतस्तिरस्कृतोऽसि । तस्याः शरीरं दृढानुतापं गाढपश्चात्तापमत एव प्रवालशय्याशरणं करिष्यामीति
अन्वयः: हे कामिन् ! सुरताऽपराधात् पादानतः सन् कोपनया कया अवधूतः असि ? तस्याः शरीरं दृढाऽनुतापं प्रवालशय्याशरणां करिष्यामि ।

Verse 9
प्रसीद विश्राम्यतु वीर वज्रं शरैर्मदीयैः कतमः सुरारिः । बिभेतु मोघीकृतबाहुवीर्यः स्त्रीभ्योऽपि कोपस्फुरिताधराभ्यः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): प्रसीदेति ॥ हे वीर, प्रसीद प्रसन्नो भव । वज्रं कुलिशं विश्राम्यतु । उदास्तामित्यर्थः । मदीयैः शरैर्मोधीकृतबाहुवीर्यो विफलीकृतभुजशक्तिः कतमो दैत्यदानवादिषु यः कश्चन सुरारिः । वा बहूनां जातिपरिप्रश्ने डतमच्` इति डतमच्प्रत्ययः । कोपेन स्फुरिताधराभ्यः स्त्रीभ्योऽपि बिभेतु । किमु वक्तव्यं पुंभ्य इत्यर्थः सकृद्भीतः सर्वतो बिभेतीति भावः । `भीत्रार्थानां भयहेतुः` इत्यपादानत्वात्पञ्चमी
अन्वयः: हे वीर ! प्रसीद, वज्रं विश्राम्यतु । मदीयैः शरैः मोधीकृतबाहुः वीर्यः कतमः सुराऽरिः कोपस्फुरिताऽधराभ्यः स्त्रीभ्यः अपि बिभेतु ।

Verse 10
तव प्रसादात्कुसुमायुधोऽपि सहायमेकं मधुमेव लब्ध्वा । कुर्यां हरस्यापि पिनाकपाणेर्धैर्यच्युतिं के मम धन्विनोऽन्ये ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तवेति ॥ किं बहुना, तव प्रसादादनुग्रहात्कुसुमायुधोऽप्यतिदुर्बलास्त्रोऽप्यहमेकं मधुं वसन्तमेव सहायं लब्ध्वा पिनाकः पाणौ यस्य स पिनाकपाणिः । `प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ` । हरस्यापि । हरः पिनाकी चेत्यतिदारुण इति भावः । धैर्यच्युतिं धैर्यहानिं कुर्याम् । कर्तु शक्नुयामित्यर्थः । `शकि लिङ् च` (पा.3|3|172) इति शक्यार्थे लिङ् । अन्ये धन्विनो धनुर्भृते मम के । न केऽपीत्यर्थः । किंशब्दः कुत्सायाम् । `कुत्साप्रश्नवितर्केषु क्षेपे किंशब्द इष्यते` इति शाश्वतः
अन्वयः: तव प्रसादात् कुसुमायुधः अपि (अहम्) एकं मधुम् एव सहायं लब्ध्वा पिनाकपाणेः हरस्य अपि धैर्यच्युतिं कुर्याम्, अन्ये धन्विनः मम के ।

Verse 11
अथोरुदेशादवतार्य पादमाक्रान्तिसंभावितपादपीठम् । संकल्पिथार्थे विवृतात्मशक्तिमाखण्डलः काममिदं बभाषे ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): अथेति ॥ अथ स्मरवाक्यश्रवणानन्तरमाखण्डलः सहस्त्राक्ष ऊरुदेशात्पादमाक्रमणेन संभावितं पादपीठं यस्मिंस्तद्यथा तथावतार्थं संकल्पितार्थे हरचित्ताकर्षणरूपे विषये विवृतात्मशक्तिम् । `कुर्यां हरस्यापि-` (३/१०) इत्यादिना प्रकटीकृतस्वसामर्थ्यं कामं स्मरमिदं वक्ष्यमाणं बभाषे
अन्वयः: अथ आखण्डलः ऊरुदेशात् पादम् आक्रान्तिसंभावितपादपीठम् अवतार्य सङ्कल्पिताऽर्थे विवृतात्मशक्तिं कामम् इदं बभाषे ।

Verse 12
सर्वं सखे त्वय्युपपन्नमेतदुभे ममास्त्रे कुलिशं भवांश्च । वज्रं तपोवीर्यमहत्सु कुण्ट्ःअं त्वं सर्वतोगामि च साधकं च ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): सर्वमिति ॥ हे सखे ! सखे इति संबोधनं गौरवार्थम् । सर्वमेतत्त्वय्युपपन्नं सिद्धम् । मम कुलिशं वज्रं भवांश्चोभे अस्त्रे । तत्र वज्रं तपोवीर्येण तपोबलेन महत्सु प्रबलेषु कुण्ठं प्रतिबद्धप्रसरम् । त्वमस्त्रं पर्वतोगामि च साधकं च । तापसेष्वप्यकुण्ठमित्यर्थः ॥ ३.१२ ।
अन्वयः: सखे ! सर्वम् एतत् त्वयि उपपन्नम्, मम कुलिशं भवांश्च उभे अस्त्रे । वज्रं तपोवीर्यमहत्सु कुण्ठम् । त्वं सर्वतोगामि साधकं च ।

Verse 13
अवैमि ते सारमतः खलु त्वां कार्ये गुरुण्यात्मसमं नियोक्ष्ये । व्यादिश्यते भूधरतामवेक्ष्य कृष्णेन देहोद्वहनाय शेषः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): अवैमीति ॥ हे सखे, ते सारं बलमवैमि वेद्मि । अतः खल्वत एवात्मसमं मत्तुल्यं त्वां गुरुणि महति कार्ये `तस्मै हिमाद्रेः-` (३/१६) इति वक्ष्यमाणे नियोक्ष्ये । `स्वराद्यन्तोपसर्गादिति वक्तव्यम्` इति वार्तिकादात्मनेपदनियमः । तथाहि । सारपरीक्षापूर्वक एव सर्वत्र नियोग इत्याह- कृष्णेन विष्णुना । धरतीति धरः । पचाद्यच् । भुवो धरो भूधरस्तस्य भावस्तत्तां भूधरताम् । भूधरणशक्तिमित्यर्थः । अवेक्ष्य ज्ञात्वा शेषः सर्पराजो देहोद्वहनाय स्वदेहमुद्वोढुम् । `क्रियार्थोपपदस्य-` इत्यादिना चतुर्थी । व्यादिश्यते नियुज्यते । शेषशायी हि भगवान्
अन्वयः: (हे सखे !) ते सारम् अवैमि । अतः खलु आत्मसमं त्वां गुरुणि कार्ये नियोक्ष्ये । कृष्णेन भूधरताम् अवेक्ष्य शेषो देहोद्वहनाय व्यादिश्यते ।

Verse 14
आशंसता बाणगतिं वृषाङ्के कार्यं त्वया नः प्रतिपन्नकल्पम् । निबोध यज्ञांशभुजामिदानीमुच्चैर्द्विषामीप्सितमेतदेव ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): आशंसतेति ॥ वृषाङ्के हरे बाणगतिं बाणप्रसरमाशंसता कथयता । `कुर्यां हरस्यापि पिनाकपाणेः` (३/१०) इत्यादिनेति शेषः । त्वया नोऽस्माकं कार्यं प्रतिपन्नकल्पमङ्गीकृतप्रायम् । `ईषदसमात्पौ-` इत्यादिना कल्पप्रत्ययः । कथमेतदित्याह- इदानीमुच्चैरुन्नता द्विषो येषां तेषामुच्चैर्द्विषां यज्ञांशभुजां देवानाम् । एतेन द्विषल्लुप्तयज्ञभागत्वं सूच्यते । ईप्सितमाप्तुमिष्टमेतदेव हरे बाणप्रयोगरुपमेव निबोध । हरायत्तं बुद्ध्यस्वेत्यर्थः । `बुध बोधने` इति धातोर्लोट् । अत्र `आशंसता प्रार्थयमानेन` इति नाथव्याख्यानमनाथव्याख्यानम् । आङ्पूर्वयोः शास्तिशंसत्योरिच्छार्थत्वे आत्मनेपदनियमात् । याच्‌ञार्थत्वस्याप्रामाणिकत्वात् । `कुर्यां हरस्यापि-` (३/१०) इत्यत्रानयोरभावादयोगाच्चेति
अन्वयः: हे मित्र ! वृषाङ्के बाणगतिम् आशंसता त्वया नः कार्यं प्रतिपन्नकल्पम् । इदानीम् उच्चैर्द्‌विषां यज्ञांऽशभुजाम् ईप्सितम् एतत् एव निबोध

Verse 15
अमी हि वीर्यप्रभवं भवस्य जयाय सेनान्यमुशन्ति देवाः । स च त्वदेकेषुनिपातसाध्यो ब्रह्माङ्गभूर्ब्रह्मणि योजितात्मा ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): अमी इति ॥ हि यस्मादमी देवा जयाय शत्रुजयार्थं भवस्य हरस्य वीर्यप्रभवं तेजः संभूतं सेनापतिमुशन्ति कामयन्ते । `वश कान्तौ` इति धातोर्लट् । ब्रह्मणां सद्योजातादिमन्त्राणामङ्गानां हृदयादिमन्त्राणां भूः स्थानं ब्रह्माङ्गभूः । कृतमन्त्रन्यास इत्यर्थः । ब्रह्मणि निजतत्त्वे `वेदस्तत्वं तपो ब्रह्म ब्रह्मा` इत्युभयत्राप्यमरः । योजितात्मा नियमितचित्तः । मन्त्रन्यासपूर्वंकं ब्रह्म ध्यायन्नित्यर्थः । स भवश्च त्वदेकेषोस्तवैकबाणस्य निपातेन साध्यः । अनन्यसाध्योऽयमस्मिन्नवसर इति भावः
अन्वयः: हि अमी देवाः जयाय भवस्य वीर्यप्रभवं सेनान्यम् उशन्ति । ब्रह्माऽङ्गभूः ब्रह्मणि योजितात्मा स च त्वदेकेषुनियातसाध्यः ।

Verse 16
तस्मै हिमाद्रेः प्रयतां तनूजां यतात्मने रोचयितुं यतस्व । योषित्सु तद्वीर्यनिषेकभूमिः सैव क्षमेत्यात्मभुवोपदिष्टम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तस्मा इति ॥ यतात्मने नियतचित्ताय तस्मै भवाय । `रुच्यर्थानां प्रीयमाणः` (पा.1|4|33) इति संप्रदानत्वाच्चतुर्थी । प्रयतां हिमाद्रेस्तनूजां पार्वतीं रोचयितुं यतस्व । भवितव्यं चात्र पार्वत्यैवेत्याह-योषित्सु स्त्रीषु मध्ये । `यतश्च निर्धारणम्` (पा.2|3|41) इति सत्पमी । क्षमा शक्ता तस्य हरस्य वीर्यं रेतस्तस्य निषेकः क्षरणं तस्य भूमिः क्षेत्रं सा पार्वत्येवेत्यात्मभुवा ब्रह्मणोपदिष्टम् । `उभे एव क्षमे वोढुम्` (२.६०) इत्यादिनोक्तमित्यर्थः
अन्वयः: यतात्मने तस्मै प्रयतां हिमाऽद्रेः तनूजां रोचयितुं यतस्व । योषित्सु क्षमा तद्वीर्यनिषेकभूमिः सा एव इति आत्मभुवा उपदिष्टम् ।

Showing 131 to 140 of 613 verses