कुमारसम्भवम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

कुमारसम्भवम्

Enable Parallel


Showing 121 to 130 of 613 verses
Verse 61
तस्यात्मा शितिकण्ठस्य सैनापत्यमुपेत्य वः । मोक्ष्यते सुरबन्दीनां वेणीर्वीर्यविभूतिभिः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तस्येति ॥ तस्य शितिकण्ठस्याष्टमूर्तेरात्मा पुत्रः इत्यर्थः । `आत्मा वै पुत्रनामासि` इति श्रुतेः । वो युष्माकं सेनापतेर्भावः सैनापत्यम् `पत्यन्तपुरोहितादिभ्यो यक्` (पा.5|1|128) इति यक्प्रत्ययः । उपेत्य प्राप्य वीर्यविभूतिभिः शौर्यसंपत्तिभिः सुरवन्दीनां वेणीर्मोक्ष्यते विस्रंसयिष्यति । तारकासुरं हनिष्यतीति भावः
अन्वयः: तस्य शितिकण्ठस्य आत्मा वः सैनापत्यम् उपेत्य वीर्यविभूतिभिः सुरबन्दीनां वेणीः मोक्ष्यते ।

Verse 62
इति व्याहृत्य विबुधान्विश्वयोनिस्तिरोदधे । मनस्याहितकर्तव्यास्तेऽपि प्रतिययुर्दिवम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): इतीति ॥ विश्वस्य योनिः कारणम् । `योनिः स्त्रीणां भगस्थाने कारणं तान्त्रिके पणे` इति वैजयन्ती । बिबुधान्सुरानिति व्याहृत्याभिधाय तिरोदधोऽन्तर्हितवान् । ते देवा अपि मनस्याहितं कर्तव्यं यैस्ते तथोक्ताः सन्ता दिवं स्वर्गं ययुः प्रापुः
अन्वयः: विश्वयोनिः विबुधान् इति व्याहृत्य तिरोदधे । देवा अपि मनसि आहितकर्तव्याः (सन्तः) दिवं ययुः ।

Verse 63
तत्र निश्चित्य कन्दर्पमगमत्पाकशासनः । मनसा कार्यसंसिद्धित्वराद्विगुणरंहसा ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तत्रेति । पाको नाम कश्चिदसुरस्तस्य शासन इन्द्रस्तत्र हरचित्तकर्षणकृत्ये कंदर्पं निश्चित्य । साधकत्वेनेति शेषः । कार्यसंसिद्धौ त्वरयौत्सुक्येन द्वौ गुणौ यस्य तद्‌द्विगुणं द्विरावृत्तं रंहो वेगो यस्य तेन तथोक्तेन । `गुणस्तु वृत्तिशब्दादिज्येन्द्रियामुख्यतन्तुषु` इति वैजयन्ती । मनसागमत् । सस्मारेत्यर्थः । गमेर्लुङ् । लृदित्त्वाच्च्लेरङादेशः
अन्वयः: पाकशासनः तत्र कन्दर्पं निश्चित्य कार्यसिद्धौ त्वराद्विगुणरंहसा मनसा अगमत् ।

Verse 64
अथ स ललितयोषिद्भ्रूलताचारुशृङ्गं रतिवलयपदाङ्के चापमासज्य कण्ठे । सहचरमधुहस्तन्यस्तचूताङ्कुरास्त्रः शतमखमुपतस्थे प्राञ्जलिः पुष्पधन्वा ॥
Metre: मालिनी
सञ्जीविनीटीका (मल्लिनाथः): अथेति । अथ स्मरणानन्तरम् । स स्मृत इत्यर्थः । पुष्पं धनुर्यस्य स पुष्पधन्वा कामः । `वा संज्ञायाम्` (पा.5|4|133) इत्यनङ् । `ललितं त्रिषु सुन्दरम्` इत्मरः । ललितायाः सुन्दर्या योषितो भ्रुवौ लते इव चारुणी श्रृङ्गे कोटी यस्य तत्तथोक्तं चापम् । रतिः स्मरप्रिया । रतिः स्मरप्रिया` इत्यमरः । तस्या वलयपदानि कङ्कणस्थानान्यङ्कश्चिह्नं यस्य स तथोक्ते कण्ठ आसज्य लगयित्वा । चापकण्ठविशेषणाभ्यां श्रृङ्गारैकनिधेस्त्रिभुवनैकवीरस्य श्रृङ्गारवीरोपकरणेषु तुल्यरसत्वं व्यज्यते । सहचरस्य सख्युर्मधोर्वसन्तस्य हस्ते न्यस्तं चूताङ्कुरमेवास्त्रं यस्य स तथोक्तः प्राञ्जलिः सन् । शतमखमिन्द्रमुपतस्थे सङ्गतवान् । सङ्गतिकरणार्थादात्मनेपदम् । अत्र स्वभावोक्तिः `ननमयययुतेयं मालिनी भोगिलाकैः` इति लक्षणात्
अन्वयः: अथ स पुष्पधन्वा ललितयोषिद्‌भ्रूलताचारुश्रृङ्गं चापं रतिवलयपदाङ्के कण्ठे आसज्य सहचरमधुहस्तन्यस्तचूताऽङ्कुराऽस्त्रः प्राञ्जलिः (सन्) शतमखम् उपतस्थे ।

Verse 1
तस्मिन्मघोनस्त्रिदशान्विहाय सहस्रमक्ष्णां युगपत्पपात । प्रयोजनापेक्षितया प्रभूणां प्रायश्चलं गौरवमाश्रितेषु ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तस्मिन्निति । मघोन इन्द्रस्याक्ष्णां सहस्त्रं त्रिरावृत्ता दशपरिमाणमेषामिति त्रिदशान्देवान् । `संख्ययाव्ययासन्नादूराधिकसंख्याः संख्येये` इति बहुव्रीहिः । `बहुव्रीहौ संख्येये-` इति डच्प्रत्ययः । उक्तार्थत्वात्सुचो निवृत्तिः । विहाय त्यक्तवा तस्मिन्कामे युगपत्पपात । सहस्त्रेणाक्षिभिरद्राक्षीदित्त्यादरातिशयोक्तिः । ननु सुचिरपरित्यगेन भगवतो महेन्द्रस्य कथमकाण्डे तस्मिन्नेकस्मिन्पक्षपात इत्याशङ्क्यार्थान्तरं न्यस्यति- प्रायो भूम्ना प्रभूणामाश्रितेषु सेवकेषु विषये गौरवमादरः प्रयोजनापेक्षितया कार्यार्थित्वेन हेतुना चलं चञ्चलम् । फलतन्त्राः प्रभवो न तु गुणतन्त्रा इति भावः
अन्वयः: मघोन अक्ष्णां सहस्त्रं त्रिदशान् विहाय तस्मिन् युगपत् पपात । प्रायः प्रभूणाम् आश्रितेषु गौरवं प्रयोजनाऽपेक्षितया चलम् ।

Verse 2
स वासवेनासनसंनिकृष्टमितो निषीदेति विसृष्टभूमिः । भर्तुः प्रसादं प्रतिनन्द्य मूर्ध्ना वक्तुं मिथः प्राक्रमतैवमेनम् ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): स इति । स कामो वासवेनेन्द्रेणासनस्य सिंहासनस्य संनिकृष्टं संनिहितमासनसंनिकृष्टं यथा तथा । शेषषष्ठ्यायं समासः । कृद्योगलक्षमया तु न । `न लोकाव्ययनिष्ठाखलर्थतृनाम्` (पा.2|3|69) इति षष्ठीनिषेधात् । इतो निषीदेहोपविशेति विसृष्टभूमिर्दत्तावकाशः सन् । भर्तुः स्वामिनः प्रसादमनुग्रहं मूर्ध्नाप्रतिनन्द्य सम्भाव्य मिथो रहसि । `मिथोऽन्योन्यं रहस्यपि` इत्यमरः (अ.को.3|3|271) । एनमिन्द्रमेवं वक्ष्यमाणप्रकारेण वक्तुं प्राक्रमतोपक्रान्तवान् । `प्रोपाभ्यां समर्थाभ्याम्` (पा.1|3|42) इत्यात्मनेपदम्
अन्वयः: स वासवेन आसनसन्निकृष्टम् इतो निषीद इति विसृष्टभूमिः (सन्) भर्तुः प्रसादं मूर्ध्ना प्रतिनन्द्य मिथः एनम् एवं वक्तुं प्राक्रमत ।

Verse 3
आज्ञापय ज्ञातविशेष पुंसां लोकेषु यत्ते करणीयमस्ति । अनुग्रहं संस्मरणप्रवृत्तमिच्छामि संवर्धितमाज्ञया ते ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): अज्ञापयेति ॥ हे पुंसां ज्ञातविशेष ज्ञातसार । ज्ञातपुंविशेषेत्यर्थः । सापेक्षत्वेऽपि गमकत्वात्समासः । आज्ञापय । तदिति शेषः । उत्तरवाक्ये यच्छब्दप्रयोगान्न पूर्ववाक्ये तच्छब्दप्रयोगनिर्बन्धः । किं तदित्याह--लोकेषु ते तव यत्करणीयं कर्तवन्यमस्ति । संस्मरणेन प्रवृत्तमुत्पन्नं ते तवानुग्रहं प्रसादमाज्ञया नियोगेन वर्धय । क्वचित्कर्मणि नियुङ्क्ष्वेत्यर्थः । अन्यथा मे नास्ति परितोष इति भावः । तुमुन्नन्तपाठे णिजर्थे यत्नः कार्यः न च मे किञ्चिदसाध्यमस्तीत्याह-
अन्वयः: हे पुंसां ज्ञातविशेष ! आज्ञापय, लोकेषु ते यत् करणीयम् अस्ति, संस्मरणप्रवृत्तं ते अनुग्रहम् आज्ञया संवर्द्धितम् इच्छामि ।

Verse 4
केनाभ्यसूया पदकाङ्क्षिणा ते नितान्तदीर्घैर्जनिता तपोभिः । यावद्भवत्याहितसायकस्य मत्कार्मुकस्यास्य निदेशवर्ती ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): केनेति ॥ पदकाङ्क्षिणा स्वाराज्यकामेन केन पुंसा नितान्तदीर्घैरतिप्रभूतैस्तपोभिस्ते तवाभ्यसूयेर्ष्या जनिता । तं ब्रूहीति शेषः । किमर्थम् । यावद्यतः स भवद्वैर्याहितसायकस्य संहितबाणस्यास्य मत्कार्मुकस्य निदेशे वर्तत इति निदेशवर्त्याज्ञावशो भवति । अविलम्बेनैव भविष्यतीत्यर्थः । `वर्तमानसामीप्ये वर्तमानवद्वा` (पा.3|3|131) इति लट्
अन्वयः: हे प्रभो ! ते पदकाङ्क्षिणा केन नितान्तदीर्घैः तपोभिः अभ्यसूया जनिता । (तं ब्रूहि) (सः) आहितसायकस्य अस्य मत्कार्मुकस्य निदेशवर्ती भवति ।

Verse 5
असंमतः कस्तव मुक्तिमार्गं पुनर्भवक्लेशभयात्प्रपन्नः । बद्धश्चिरं तिष्ठतु सुन्दरीणामारेचितभ्रूचतुरैः कटाक्षैः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): असंमत इति ॥ तवासंमतः कः पुनर्भवः पुनरुत्पत्तिः । संसार इति यावत् । तत्र ये क्लेशा जन्मजरामरणादयस्तेभ्यो भयान्मुक्तिमार्गं प्रपन्नस्तं वद । यतः सोऽप्यारेचिताभिरेकैकशो विवर्तिताभिर्भ्रूभिश्चतुरैः सुन्दरीणां कटाक्षैर्बद्धश्चिरं तिष्टतु । आरेचितलक्षणं तु- `स्याद्‌भ्रुवोर्ललिताक्षेपादेकस्या एव रेचितम् । तयोर्मूलसमुत्क्षेपं कौटिल्याद्‌भ्रूकुटिर्विदुः ॥` इति
अन्वयः: (हे प्रभो !) तव असम्मतः कः पुनर्भवक्लेशभयात् मुक्तिमार्गं प्रपन्नः ? (यावत् सः) आरेचितभ्रूचतुरैः सुन्दरीणां कटाक्षैः बद्धः (सन्) चिरं तिष्ठतु ।

Verse 6
अध्यापितस्योशनसापि नीतिं प्रयुक्तरागप्रणिधिर्द्विषस्ते । कस्यार्थधर्मौ वद पीडयामि सिन्धोस्तटावोघ इव प्रवृद्धः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): अध्यापितस्येति ॥ उशनसा शुक्रेण नीतिं नीतिशास्त्रमध्यापितस्यापि अपि शब्दाच्छुक्रशिष्याणामप्रधृष्यत्वं गम्यते । `गतिबुद्धि-` इत्यादिना द्विकर्मकादिण्धातोर्ण्यन्तात्प्रधाने कर्मणि क्तः `अप्रधाने दुहादीनां ण्यन्ते कर्तुश्च कर्मणः` ।इति वचनात् । ते द्विषस्तव शत्रोः कस्यार्थधर्मौ प्रयुक्तः प्रहितो रागो विषयाभिलाष एव प्रणिधिर्बूतो येन सोऽहम् । `प्रार्थने प्रणिधिः चरे` इति यादवः । प्रवृद्ध ओघः सिन्धोर्नद्यास्तटाविव पीडयामि वद
अन्वयः: उशनसा नीतिम् अध्यापितस्य अपि ते कस्य द्विषः अर्थधर्मौ प्रयुक्तरागप्रणीधिः (सन्) अहं प्रवृद्धः ओघः सिन्धोः तटौ इव पीडयामि ? वद ।

Showing 121 to 130 of 613 verses