कुमारसम्भवम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

कुमारसम्भवम्

Disable Parallel


Showing 111 to 120 of 613 verses
Verse 51
तदिच्छामो विभो सृष्टं सेनान्यं तस्य शान्तये । कर्मबन्धच्छिदं धर्मं भवस्येव मुमुक्षवः ॥
Anvaya:
तद् हे विभो ! मुमुक्षवो भवस्य शान्तये कर्मबन्धच्छिदं धर्मम् इव तस्य शान्तये सेनान्यं स्रष्टुम् इच्छामः ।
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तदिति ॥ तत्तस्मात्कारणात् । हे विभो स्वामिन्, मोक्तुं भवं त्यक्तुमिच्छवो मुमुक्षवो विरक्ता भवस्य संसारस्य शान्तये निवृत्तये कर्मैव बन्धस्तं छिनत्तीति कर्मबन्धच्छित्तं धर्ममिव । आत्मज्ञानहेतुभूतमिति शेषः । `तमेव विदित्वातिमृत्युमेति` इति ज्ञानादेव मुक्तिः । तस्य तारकस्य शान्तये नाशाय । सेनां नयतीति सेनानीश्चमूपतिः । `सत्सूद्विष-` इत्यादिना क्विप् । तं सेनान्यं कंचित्स्रष्टुमिच्छामः । वयमिति शेषः

Verse 52
गोप्तारं सुरसैन्यानां यं पुरस्कृत्य गोत्रभित् । प्रत्यानेष्यति शत्रुभ्यो बन्दीमिव जयश्रियम् ॥
Anvaya:
सुरसैन्यानां गोप्तारं यं पुरस्कृत्य गोत्रभित् वन्दीम् इव जयश्रियं शत्रुभ्यः प्रत्यानेष्यति ।
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): गोप्तारमिति ॥ सुरसैन्यानां देवतासेनानां गोप्तारं रक्षितारं यं सेनान्यं पुरस्कृत्य पुरोधाय । `पुरोऽव्‌ययम्` इति गतित्वात् `नमस्पुरसोर्गत्योः` (पा.8|3|40) इति सकारः । गां पृथ्वीं त्रायन्त इति गोत्रास्तान्भिनत्तीति गोत्रभिदिन्द्रो जयश्रियं बन्दीमिव बन्दीकृतां स्त्रियमिव शत्रुभ्यः सकाशात्प्रत्यानेष्यति प्रत्याहरिष्यति तं स्त्रष्टुमिति पूर्वेण संबन्धः

Verse 53
वचस्यवसिते तस्मिन्ससर्ज गिरमात्मभूः । गर्जितानन्तरां वृष्टिं सौभाग्येन जिगाय या ॥
Anvaya:
तस्मिन् वचसि अवसिते (सति) आत्मभूः गिरं ससर्ज । सा सौभाग्येन गर्जितानन्तरां वृष्टिं जिगाय ।
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): वचसीति ॥ तस्मिन्बार्हस्पत्ये वचस्यवसिते परिसमाप्ते सत्यात्मभूर्ब्रह्मा गिरं वाचं ससर्ज जगादेत्यर्थः । सा गीः सौभाग्येन मनोहरत्वेन । `हृद्‌भगसिन्ध्वन्ते पूर्वपदस्य च` इत्युभयपदवृद्धिः गर्जिताद्‌गर्जितस्य वानन्तरं प्रवृत्तां वृष्टिं जिगाय जितवती । गर्जितपरत्वाद्‌वृष्टेरिव तद्विज्ञापनफलत्वाद्‌गिरः सुभगत्वमिति भावः

Verse 54
संपत्स्यते वः कामो यं कालः कश्चित्प्रतीक्ष्यताम् । न त्वस्य सिद्धौ यास्यामि सर्गव्यापारमात्मना ॥
Anvaya:
अयं कः कामः सम्पत्स्यते । कश्चित् कालः प्रतीक्ष्यताम् । तु अस्य सिद्धौ आत्मना सर्गव्यापारं न यास्यामि ।
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): संपत्स्यत इति ॥ अयं वो युष्माकं कामो मनोरथः सेनानीरुपः संपत्स्यते सेत्स्यति । कश्चित्कियानपि कालः प्रतीक्ष्यताम् । तु किंतु तस्य सेनान्यः सिद्धौ विषय आत्मना स्वयं सर्गः सृष्टिरेव व्यापारस्तं न यास्यामि । नाहं स्रक्ष्यामीत्यर्थः

Verse 55
इतः स दैत्यः प्राप्तश्रीर्नेत एवार्हति क्षयम् । विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसांप्रतम् ॥
Anvaya:
इतः प्रात्पश्रीः स दैत्यः इत एव क्षयं न अर्हति; विषवृक्षः अपि संवर्ध्य स्वयं छेत्तुम् असाम्प्रतम् ।
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): इत इति ॥ इतो मत्त एव प्रात्पश्रीर्लब्धोदयः स दैत्यस्तारकासुर इतो मत्त एव क्षयं नाशं नार्हति । तथाहि । अन्यो वृक्षस्तावदास्ताम् विषस्य वृक्षो विषयवृक्षोऽपि संवर्ध्य कुतश्चित्कारणात्सम्यग्‌ वर्धयित्वा स्वयं छेत्तुमसांप्रतमनर्हः । असांप्रतमित्यमेन निपातेनाभिहितत्वाद्‌वृक्ष इति द्वितीयान्तो न भवत्यनभिहिते कर्मणि द्वितीयाभिधानात् । यथाह वामनः-- `निपातेनाप्यभिहिते कर्मणि न विभक्तिः परिगणनस्य प्रायिकत्वात्` इति

Verse 56
वृतं तेनेदमेव प्राङ्मया चास्मै प्रतिश्रुतम् । वरेण शमितं लोकानलं दग्धुं हि तत्तपः ॥
Anvaya:
प्राक् तेन इदम् एव वृतं, मया च अस्मै प्रतिश्रुतम् । हि लोकान् दग्धुम् अलं तत्तपो वरेण शमितम् ।
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): वृतमिति ॥ प्राक्पुर्वं तेनासुरेणेदमेव देवैरवध्यत्वमेव वृतं प्रार्थितम् । मया चास्मै तारकाय प्रतिश्रुतं प्रतिज्ञातम् । `प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता` (पा.1|4|40) इति संप्रदानत्वाच्चतुर्थी । कर्तव्यं चैतदित्याह-- लोकान्दग्धुमलं शक्तम् । `पर्यात्पिवचनेष्वलमर्थेषु` इति तुमुन्प्रत्ययः । तस्य तपस्तत्तपो वरेण वरदानेन शमितमिति शेषः

Verse 57
संयुगे सांयुगीनं तमुद्यतं प्रसहेत कः । अंशाद् ऋते निषिक्तस्य नीललोहितरेतसः ॥
Anvaya:
संयुगो उद्यतं सांयुगीनं तं निषिक्तस्य नीललोहितरेतसः अंशात् ऋते कः प्रसहेत ?
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): संयुग इति ॥ संयुगे युद्ध उद्यन्तं व्याप्रियमाणम् । संयुगे साधुं सांयुगीनम् । `प्रतिजनादिभ्यः खञ्` (पा.4|4|99) इति खञ्प्रत्ययः । तं तारकं निषिक्तस्य क्वचित्क्षेत्रे क्षरितस्य । `नीलः कण्ठे लोहितश्च केशेष्विति नीललोहित इति पुराणम् ।` इति स्वामी । तस्य नीललोहितस्य धूर्जटेरेतसः शुक्रस्यांशादृतेंऽशं विनान्यः कः प्रसहेताभिभवेत् । प्रसहनमभिभवः` इति वृत्तिकारः

Verse 58
स हि देवः परं ज्योतिस्तमःपारे व्यवस्थितम् । परिच्छिन्नप्रभावर्द्धिर्न मया न च विष्णुना ॥
Anvaya:
हि स देवः तमःपारे व्यवस्थितं परं ज्योतिः मया विष्णुना च परिच्छिन्नप्रभावर्द्धिः न ।
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): स इति ॥ स देवो नीललोहितस्तमसः पारे परतो व्यवस्थितं तमोगुणातीतं परं ज्योतिः परमात्मा हि । अतएव मया परिच्छिन्नप्रभावर्द्धिरवगाढमहिमातिशयो नभवति तथा विष्णुना च न । अतस्तस्यासाध्यं नास्तीत्यर्थः

Verse 59
उमारूपेण ते यूयं संयमस्तिमितं मनः । शंभोर्यतध्वमाक्रष्टुमयस्कान्तेन लोहवत् ॥
Anvaya:
ते यूयं संयमस्तिमित शम्भोः मनः उमारुपेण अथस्कान्तेन लोहवत् आक्रष्टुं यतध्वम् ।
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): उमेति ॥ ते कार्यार्थिनो यूयं संयमस्तिमितं समाधिनिश्चलं शंभोर्मन उमारुपेणोमासौन्दर्येण `रुपं स्वभावे सौन्दर्ये नाणके पशुशब्दयोः । ग्रन्थावृत्तौ नाटकादावाकारश्लोकयोरपि ॥` इति विश्वः । अयस्कान्तेन मणिविशेषेण । `कस्कादिषु च` (पा.8|3|48) इति सकारः । लोहवदयोधातुमिव। `तेन तुल्यं क्रिया चेद्वतिः` (पा.5|1|115) इति वतिप्रत्ययो मृग्यः आक्रष्टुमाहर्तुं यतध्वमुद्युक्ता भवत

Verse 60
उभे एव क्षमे वोढुमुभयोर्वीर्यमाहितम् । सा वा शंभोस्तदीया वा मूर्तिर्जलमयी मम ॥
Anvaya:
उभयोः शम्भोः मम वा आहितं बीजं वोढुं क्रमेण शम्भोः सा वा मम च तदीया जलमयी मूर्तिः वा उभे एव क्षमे ।
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): उभे इति ॥ उभयोः शंभोर्मम चाहितं निषिक्तं बीजं तेजो वोढुं सोढुं सा वोमा शंभोरष्टमूर्तेस्तस्येयं तदीया जलमयी मूर्तिर्वा मम । न तृतीयेत्यर्थः । वा शब्दो द्वन्द्वार्थे न त्वन्यार्थे । एतदेवोदाहृत्येत्थमेव व्याख्यातं गणव्याख्याने । अत्र दीपकालङ्कारः । प्राकरणिकयोरुमामहेश्वरयोरप्राकरणिकयोर्ब्रह्मजलमूर्त्योश्चौपम्यस्य गम्यत्वात् । यथाह भोजराजः- `प्रस्तुतानामप्रस्तुतानां चौपम्यस्य गम्यत्वे दीपकम्` इति । न चेयं तुल्योगिता तस्याः केवलप्रस्तुतविषत्वेन केवलाप्रस्तुतविषयत्वेन चोत्थानादिति

Showing 111 to 120 of 613 verses