कुमारसम्भवम्
Keyboard Shortcuts:
← → Navigate verses |
Ctrl +← Ctrl +→ Navigate pages |
↑ ↓ Navigate chapters |
M Toggle meter |
C Toggle commentary |
A Toggle anvaya |
T Toggle translation |
P Toggle parallel |
S Search |
B Bookmark
Copy Link
तेनामरवधूहस्तैः सदयालूनपल्लवाः । अभिज्ञाश्छेदपातानां क्रियन्ते नन्दनद्रुमाः ॥
Anvaya: तेन अमरवधूहस्तैः सदयालूनपल्लवाः नन्दनद्रुमाः छेदपातानाम् अभिज्ञाः क्रियन्ते ।
Metre: अनुष्टुप्
वीज्यते स हि संसुप्तः श्वाससाधारणानिलैः । चामरैः सुरबन्दीनां बाष्पशीकरवर्षिभिः ॥
Anvaya: हि स संसुप्तः (सन्) श्वाससाधारणाऽनिलैः बाष्पसीकरवर्षिभिः सुरवन्दीनां चामरैः वीज्यते ।
Metre: अनुष्टुप्
उत्पाट्य मेरुशृङ्गाणि क्षुण्णानि हरितां खुरैः । आक्रीडपर्वतास्तेन कल्पिताः स्वेषु वेश्मसु ॥
Anvaya: तेन हरितां खुरैः क्षुण्णानि मेरुश्रृङ्गाणि उत्पाट्य स्वेषु वेश्मसु आक्रीडपर्वताः कल्पिताः ।
Metre: अनुष्टुप्
मन्दाकिन्याः पयःशेषं दिग्वारणमदाविलम् । हेमाम्भोरुहसस्यानां तद्वाप्यो धाम सांप्रतम् ॥
Anvaya: साम्प्रतं मन्दाकिन्या दिग्वारणमदाविलं पयः शेषम् । हेमाम्भोरुहसस्यानां तद्वाप्यो धाम ।
Metre: अनुष्टुप्
भुवनालोकनप्रीतिः स्वर्गिभिर्नानुभूयते । खिलीभूते विमानानां तदापातभयात्पथि ॥
Anvaya: तदापातभयात् विमानानां पथि खिलीभूते (सति) स्वर्गिभिः भुवनालोकनप्रीतिः न अनुभूयते ।
Metre: अनुष्टुप्
यज्वभिः संभृतं हव्यं विततेष्वध्वरेषु सः । जातवेदोमुखान्मायी मिषतामाच्छिनत्ति नः ॥
Anvaya: यज्वभिः विततेषु अध्वरेषु संभृतं हव्यं मायी स मिषतां नः जातवेदोमुखात् आच्छिनत्ति ।
Metre: अनुष्टुप्
उच्चैरुच्चैःश्रवास्तेन हयरत्नमहारि च । देहबद्धमिवेन्द्रस्य चिरकालार्जितं यशः ॥
Anvaya: किं च-तेन उच्चैः उच्चैः श्रवा हयरत्नं चिरकालाऽर्जितम् इन्द्रस्य यश इव अहारि ।
Metre: अनुष्टुप्
तस्मिन्नुपायाः सर्वे नः क्रूरे प्रतिहतक्रियाः । वीर्यवत्यौषधानीव विकारे सांनिपातिके ॥
Anvaya: क्रूरे तस्मिन् नः सर्वे उपायाः सन्निपातिके विकारे वीर्यवन्ति औषधानि इव प्रतिहतक्रियाः ।
Metre: अनुष्टुप्
जयाशा यत्र चास्माकं प्रतिघातोत्थितार्चिषा । हरिचक्रेण तेनास्य कण्ठे निष्क इवार्पितः ॥
Anvaya: यत्र अस्माकं जयाशा, प्रतिघातोत्थिताऽर्चिषा तेन हरिचक्रेण अस्य कण्ठे निष्कम् अर्पितम् इव ।
Metre: अनुष्टुप्
तदीयास्तोयदेष्वद्य पुष्करावर्तकादिषु । अभ्यस्यन्ति तटाघातं निर्जितैरावता गजाः ॥
Anvaya: अद्य निर्जितैरावताः तदीया गजाः पुष्करावर्तकादिषु तोयदेषु तटाघातम् अभ्यस्यन्ति ।
Metre: अनुष्टुप्