कुमारसम्भवम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

कुमारसम्भवम्

Disable Parallel


Showing 101 to 110 of 613 verses
Verse 41
तेनामरवधूहस्तैः सदयालूनपल्लवाः । अभिज्ञाश्छेदपातानां क्रियन्ते नन्दनद्रुमाः ॥
Anvaya:
तेन अमरवधूहस्तैः सदयालूनपल्लवाः नन्दनद्रुमाः छेदपातानाम् अभिज्ञाः क्रियन्ते ।
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तेनेति ॥ तेन तारकेणामरवधूहस्तैः । सुकुमारैरिति भावः । तैरपि सदयमलूना अवतंसार्थं छिन्नाः पल्लवा येषां ते नन्दनद्रुमाः । छेदाश्च पाताश्च छेदपातास्तेषाम् । अभिजानन्तीत्यभिज्ञाः । कृद्योगात्कर्मणि षष्ठी । क्रियन्ते

Verse 42
वीज्यते स हि संसुप्तः श्वाससाधारणानिलैः । चामरैः सुरबन्दीनां बाष्पशीकरवर्षिभिः ॥
Anvaya:
हि स संसुप्तः (सन्) श्वाससाधारणाऽनिलैः बाष्पसीकरवर्षिभिः सुरवन्दीनां चामरैः वीज्यते ।
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): वीज्यते इति ॥ हि यस्मात्कारणत्स तारकः संसुत्पः सन् । श्वाससाधारणो निश्वाससमानोऽनिलो योषां तैः ततोऽप्याधिक्ये निद्राभङ्गभयादिति भावः । वाष्पशीकरवर्षिभिः । तासां स्त्रीणां रोदनस्यायमवसर इति भावः । सुरवन्दीनां सुरप्रग्रहस्त्रीणां संबन्धिभिः । `प्रग्रहापग्रहौ वन्द्याम्` इत्यमरः । चामरैर्वीज्यते

Verse 43
उत्पाट्य मेरुशृङ्गाणि क्षुण्णानि हरितां खुरैः । आक्रीडपर्वतास्तेन कल्पिताः स्वेषु वेश्मसु ॥
Anvaya:
तेन हरितां खुरैः क्षुण्णानि मेरुश्रृङ्गाणि उत्पाट्य स्वेषु वेश्मसु आक्रीडपर्वताः कल्पिताः ।
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): उत्पाट्येति ॥ तेन तारकेण हरितां सूर्याश्वनाम् । `हरित्सूर्ये च सूर्याश्वे वर्णे च हरिते दिशि` इति विश्वः । खुरैः शफैः क्षुण्णानि चूर्णितानि । एतेन तेषामत्यौन्नत्यं सूचितम् । मेरुश्रृङ्गाण्युत्पाट्य स्वेषु वेश्मसु । वैश्मस्विति बहुवचनेनास्य भुवनत्रयनिवासः सूचितः । आक्रीडन्त एष्वित्याक्रीडाः । ते च पर्वताः कल्पिताः कृताः

Verse 44
मन्दाकिन्याः पयःशेषं दिग्वारणमदाविलम् । हेमाम्भोरुहसस्यानां तद्वाप्यो धाम सांप्रतम् ॥
Anvaya:
साम्प्रतं मन्दाकिन्या दिग्वारणमदाविलं पयः शेषम् । हेमाम्भोरुहसस्यानां तद्वाप्यो धाम ।
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): मन्दाकिन्या इति ॥ सांप्रतं संप्रति मन्दाकिन्या भागीरथ्या दिग्वारणानां दिग्गजानां मदैराविलं कलुषं पयो जलमेव । शिष्यते इति शेषं शिष्टम् । कर्मण्यण्प्रत्ययः । `त्रिष्वन्यत्रोपयुज्यते` इति नपुंसकत्वम् । तर्हि कनककमलानि क्व गतानीत्याह- हेमेति । हेमाम्भोरुहाण्येव सस्यानि तेषां तु तस्य वाप्यस्तद्वाप्य एव धाम स्थानम् । सर्वाण्यप्युत्पाट्य स्वदीर्घिकास्वेव प्रतिरोपितवानित्यर्थः

Verse 45
भुवनालोकनप्रीतिः स्वर्गिभिर्नानुभूयते । खिलीभूते विमानानां तदापातभयात्पथि ॥
Anvaya:
तदापातभयात् विमानानां पथि खिलीभूते (सति) स्वर्गिभिः भुवनालोकनप्रीतिः न अनुभूयते ।
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): भुवनेति ॥ तस्य तारकस्यापातात्समापत्तेर्भयाद्विमानानां पथि खिलीभूतेऽप्रहतीभूते सति । `द्वे खिलाप्रहते समे` इत्यमरः (अ.को.2|1|6) । स्वर्गिभिर्देवैभुवनानामालोकने प्रीतिर्नानुभूयते

Verse 46
यज्वभिः संभृतं हव्यं विततेष्वध्वरेषु सः । जातवेदोमुखान्मायी मिषतामाच्छिनत्ति नः ॥
Anvaya:
यज्वभिः विततेषु अध्वरेषु संभृतं हव्यं मायी स मिषतां नः जातवेदोमुखात् आच्छिनत्ति ।
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): यज्वभिरिति ॥ यज्वभिर्विधिवदिष्टवद्भिः `यज्वा तु विधिनेष्टवान्` इत्यमरः (अ.को.2|7|10) । `सुयजोर्ङ्वनिप्` (पा.3|2|103) इति ङ्वनिप्प्रत्ययः । विततेष्वध्वरेषु यज्ञेषु संभृतं दत्तं हव्यं हविर्मायी मायावी । व्रीह्यादित्वादि निप्रत्ययः । स तारको नोऽस्माकं मिषतां पश्यताम् । पश्यत्सु सत्स्वित्यर्थः । `षष्ठी चानादरे` (पा.2|3|38) इति षष्ठी । जातवेदा वह्निरेव मुखं तस्माज्जातवेदोमुखादाच्छिनत्ति । आक्षिप्य गुह्णातीत्यर्थः

Verse 47
उच्चैरुच्चैःश्रवास्तेन हयरत्नमहारि च । देहबद्धमिवेन्द्रस्य चिरकालार्जितं यशः ॥
Anvaya:
किं च-तेन उच्चैः उच्चैः श्रवा हयरत्नं चिरकालाऽर्जितम् इन्द्रस्य यश इव अहारि ।
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): उच्चैरिति ॥ किंचेति चार्थः । तेन तारकेणोच्चैरुन्नत उच्चैः श्रवा नाम हयो रत्नमिव हयरत्नमश्वश्रेष्ठः `रत्नश्रेष्ठे मणावपि` इति विश्वः । अस्य शुभ्रत्वादुत्प्रेक्षतेः-देहबद्धं बद्धदेहम् । मूर्तिमदित्यर्थः । आहिताग्न्यादित्वान्निष्ठायाः परानिपातः । चिरकालार्जितमिन्द्रस्य यश इवाहार्यपहृतम्

Verse 48
तस्मिन्नुपायाः सर्वे नः क्रूरे प्रतिहतक्रियाः । वीर्यवत्यौषधानीव विकारे सांनिपातिके ॥
Anvaya:
क्रूरे तस्मिन् नः सर्वे उपायाः सन्निपातिके विकारे वीर्यवन्ति औषधानि इव प्रतिहतक्रियाः ।
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तस्मिन्निति ॥ क्रूरे घातुके । `नृशंसो धातुकः क्रूरः` इत्यमरः । तस्मिन्नसुरे नोऽस्माकं सर्वे उपायाः संनिपातदोषत्रयस्य प्रकोपजे सांनिपातिके विकारे ज्वरादौ । `संनिपाताच्च` इति वक्तव्याठ्ठक् । वीर्यवन्ति सारवन्त्यौषधानीव प्रतिहतक्रिया विफलप्रयोगा भवन्ति

Verse 49
जयाशा यत्र चास्माकं प्रतिघातोत्थितार्चिषा । हरिचक्रेण तेनास्य कण्ठे निष्क इवार्पितः ॥
Anvaya:
यत्र अस्माकं जयाशा, प्रतिघातोत्थिताऽर्चिषा तेन हरिचक्रेण अस्य कण्ठे निष्कम् अर्पितम् इव ।
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): जयाशेति ॥ किंचेति चार्थः । नूनमनेन वयं जेष्याम इति यत्र हरिचक्रेऽस्माकं जयाशा विजयाशंसा । आसीदिति शेषः । प्रतिघातेन प्रतिहत्योत्थितार्चिषोद्‌गततेजसा तेन हरिचक्रेण विष्णोः सुदर्शनेनास्य तारकस्य कण्ठे निष्कमुरोभूषणमर्पितमिवेप्युत्प्रेक्षा । स्वयमयं निष्कमिव स्थितमित्यर्थः । तारकशिरश्छेदाय हरिणा चक्रं त्यक्तं तदपि नष्टशक्ति जातमिति भावः । `साष्टे शते सुवर्णानां हेम्न्युरोभूषणे पले । दीनारेऽपि च निष्कोऽस्त्री` इत्यमरः

Verse 50
तदीयास्तोयदेष्वद्य पुष्करावर्तकादिषु । अभ्यस्यन्ति तटाघातं निर्जितैरावता गजाः ॥
Anvaya:
अद्य निर्जितैरावताः तदीया गजाः पुष्करावर्तकादिषु तोयदेषु तटाघातम् अभ्यस्यन्ति ।
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तदीयेति । अद्य सम्प्रति निर्जित ऐरावतो यैस्ते तथोक्ताः । तस्य तारकस्येमे तदीया गजाः पुष्कराश्चावर्तकाश्च नामादयो येषां तेषु तोयदेषु मेघेषु तदाघातं वप्रक्रीडाभ्यस्यन्ति

Showing 101 to 110 of 613 verses