कुमारसम्भवम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

कुमारसम्भवम्

Disable Parallel


Showing 81 to 90 of 613 verses
Verse 21
किं चायमरिदुर्वारः पाणौ पाशः प्रचेतसः । मन्त्रेण हतवीर्यस्य फणिनो दैन्यमाश्रितः ॥
Anvaya:
किं च अयम् अरिदुर्वारः प्रचेतसः पाणौ पाशः मन्त्रेण हतवीर्यस्य फणिनो दैन्यम् आश्रितः ।
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): किं चेति ॥ किं चायमरिदुर्वारो रिपुदुष्प्रधर्षः प्रचेतसो वरुणस्य । `प्रचेता वरुणः पाशी` इत्यमरः (अ.को.1|1|73) । पाणौ पाशो रज्जुरायुधविशेषः । मन्त्रेण गारुडेन हतवीर्यस्य प्रतिबद्धशक्तेः । फणिनः सर्पस्य दैन्यं शोच्यत्वमाश्रितः । अत्र फणिनिष्ठदैन्यस्य पाशेऽसम्भवाद्दैन्यमिव दैन्यमिति कल्पनादसंभवद्वस्तुसंबन्धो निदर्शनालंकारः

Verse 22
कुबेरस्य मनःशल्यं शंसतीव पराभवम् । अपविद्धगदो बाहुर्भग्नशाख इव द्रुमः ॥
Anvaya:
भग्नशाखो द्रुम इव अपविद्धगदः कुबेरस्य बाहुः मनःशल्यं पराभवं शंसति इव ।
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): कुबेरस्येति ॥ अपविद्धा त्यक्ता गदा येन सोऽपबिद्धगदः । अतएव भग्नशाखो द्रुम इव स्थितः कुबेरस्य बाहुर्मनः शल्यम् । दुःखहेतुत्वान्मनसः शल्यप्रायमित्यर्थः । पराभवम् । शत्रुकृतमिति शेषः । शंसतीव कथयतीव । लक्षणयानुमापयतीत्यर्थः । बाहौ मुख्यकथनस्यासम्भवादिवशब्दोऽप्यत एव

Verse 23
यमोऽपि विलिखन्भूमिं दण्डेनास्तमितत्विषा । कुरुतेऽस्मिन्नमोघेऽपि निर्वाणालातलाघवम् ॥
Anvaya:
अस्तमितत्विषा दण्डेन भूमिं विलिखन् यमोऽपि अमोघे अपि अस्मिन् निर्वाणाऽलातलाघवं कुरुते ।
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): यम इति ॥ अस्तं नाशमिताः प्राप्ताः । अस्तमिति मकारान्तमव्ययम् । तस्य `द्वीतीयाश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः` इति समासः । अस्तमितास्त्विषो यस्य तेन निस्तेजस्केन दण्डेन यमोऽपि भूमिं विलिखन्नमोघेऽपि प्रागिति भावः । अस्मिन्दण्डे निर्वाणालातस्य शान्तोल्मुकस्य । अलातं नाम भूलेखनशलाका तस्य यल्लाघवं क्लैब्यं तत्कुरुते । `अलातमुल्मुकं ज्ञेयम्` इति हलायुधः । निर्वाणोऽवाते` इति निपातनान्निष्ठानत्वम् । अत्रापि लाघवमिव लाघवमिति कल्पनान्निदर्शनालंकारः

Verse 24
अमी च कथमादित्याः प्रतापक्षतिशीतलाः । चित्रन्यस्ता इव गताः प्रकामालोकनीयताम् ॥
Anvaya:
प्रतापक्षतिशीतला अमी आदित्यश्च कथं चित्रन्यस्ता इव प्रकामालोकमीयतां गताः ।
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): अमी इति ॥ प्रतापक्षत्या तेजसां क्षयेण शीतला अमी आदित्याश्च । द्वादशेति शेषः । कथम् । केन हेतुनेत्यर्थः । चित्रन्यस्ताश्चित्रलिखिता इव । प्रकाममत्यन्तमालोकनीयतां दृश्यतां गताः प्रात्पाः

Verse 25
पर्याकुलत्वान्मरुतां वेगभङ्गोऽनुमीयते । अम्भसामोघसंरोधः प्रतीपगमनादिव ॥
Anvaya:
अम्भसां प्रतीपगमनात् ओघसंरोध इव मरुतां पर्याकुलत्वात् वेगभङ्गोऽनुमीयते ।
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): पर्याकुलेति ॥ मरुतां वायूनाम् । सप्तसप्तानामिति शेषः । पर्याकुलत्वात्स्खलितगतित्वाद्धेतोर्वेगस्य भङ्गोऽम्भसां जलानां प्रतीपगमनात् । उत्तानावरोहादित्यर्थः । ओघस्य संरोधः प्रवाहप्रतिबन्ध इवानुमीयते

Verse 26
आवर्जितजटामौलिविलम्बिशशिकोटयः । रुद्राणामपि मूर्धानः क्षतहुंकारशंसिनः ॥
Anvaya:
आवर्जीतजटामौलिविलम्बिशशकोटयो रुद्राणां अपि मूर्धानः क्षतहुङ्कारशंसिनः ।
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): आवर्जितेति ॥ आवर्जितेषु परिभवदुःखावनम्रेषु जटानां मोलिषु जटाजूटेषु विलम्बिन्यः स्त्रंसिन्यः शशिकोटयश्चन्द्ररेखा येषां ते तथोक्ताः । रुद्राणामपि । एकादशानामिति शेषः । मूर्धानः क्षतं हुङ्कारं शंसन्तीति तथोक्ताः । हुङ्कारक्षत्यनुमापका इत्यर्थः । हुङ्कारशस्त्रा हि रुद्रा इति भावः

Verse 27
लब्धप्रतिष्ठाः प्रथमं यूयं किं बलवत्तरैः । अपवादैरिवोत्सर्गाः कृतव्यावृत्तयः परैः ॥
Anvaya:
प्रथमं लब्धप्रतिष्ठा यूयं बलवत्तरैः परैः उत्सर्गाअपवादैः इव किं कृतव्यावृत्तयः ।
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): लब्धेति ॥ प्रथमं पूर्वं लब्धप्रतिष्ठा लब्धस्थितयः । लब्धावकाशा इत्यन्यत्र । यूयं बलवत्तरैः पौरुषातिरेकात्प्रबलतरैः । निरवकाशैरित्यपरत्र । परैः शत्रुभिरत्सर्गाः सामान्यशास्त्राणि `मा हिंस्यात्` इत्येवमादीनि । अपोद्यन्त एमिरित्यपवादैः `गामालभेत` इत्यादिभिर्विशेषशास्त्रैरिव किं कृतव्यावृत्तयः कृतप्रतिष्ठाभङ्गाः । कृतविषयसंकोचरुपबाधा इत्यन्यत्र । `विषयसंकोच एव बाधः` इत्याचार्याः । निषेधशास्त्रस्य वेदिकहिंसापरिहारेण लौरिकमात्रे व्यवस्थापनाद्विषयसंकोच इत्यलमतिगहनावगाहनेन

Verse 28
तद्ब्रूत वत्साः किमितः प्रार्थयध्वे समागताः । मयि सृष्टिर्हि लोकानां रक्षा युष्मास्ववस्थिता ॥
Anvaya:
तत् हे वत्साः । समागता यूयम्, इतः किं प्रार्थयध्वं ? ब्रूत । हि मयि लोकानां सृष्टिः, रक्षा युष्मासु अवस्थिता ।
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तदिति ॥ तत्तस्मात्कारणात् । हे वत्साः पुत्रकाः । `वत्सस्त्वर्भकपुत्राद्योर्वर्षे वत्सं तु वक्षसि` इति विश्वः । स्वयं पितामहत्वाद्वत्सा इत्यामन्त्रयते । संभूयागताः समागताः इतो मत्तः किं प्रार्थयध्वम् । किमिच्छतेत्यर्थः । ब्रूत । लोकरक्षणे यूयमेव कर्तार इत्याह- मयि लोकानां सृष्टी रक्षा युष्मास्ववस्थिता । अतस्तदर्थमपि नस्ति मदपेक्षेत्यर्थः

Verse 29
ततो मन्दानिलोद्धूतकमलाकरशोभिना । गुरुं नेत्रसहस्रेण चोदयामास वासवः ॥
Anvaya:
ततो वासवो गुरुं मन्दाऽनिलोद्धूतकमलाकरशोभिना नेत्रसहस्रेण नोदयामास ।
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तत इति ॥ ततो भगवत्प्रश्नानन्तरं वासव इन्द्रो गुरुं बृहस्पतिम् । `गुरूगीष्पतिपित्राद्यौ` इत्यमरः । मन्दानिलोद्धूतो यः कमलाकरः स इव शोभत इति तेन तथोक्तेन नेत्राणां सहस्रेण नोदयामास प्रेरयामास। सहस्रग्रहणमास्थातिशयार्थम् । अनिमेषाणामपि प्रयत्नवशादक्षिस्पन्दो न विरुध्यते

Verse 30
स द्विनेत्रो हरेश्चक्षुः सहस्रनयनाधिकम् । वाचस्पतिरुवाचेदं प्राञ्जलिर्जलजासनम् ॥
Anvaya:
हरेः सहस्रनयनाऽधिकं द्विनेत्रं चक्षुः स वाचस्पतिः प्राञ्जलिः (सन्) जलजासनम् इदम् उवाच ।
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): स इति ॥ हरेरिन्द्रस्य। `इन्द्रो दुश्च्यवनो हरिः` इति हलायुधः । सहस्रान्नयनेभ्योऽधिकं सहस्रनयनाधिकम् । तदगोचरदर्शित्वादिति भावः । द्वे नेत्रे यस्य तद्‌द्विनेत्रम् । प्रसिद्धाच्चक्षुषोऽयं विशेष इत्यर्थः । चक्षुश्चक्षुर्भूतः । स च वाचस्पतिः । कस्कादित्वादलुक्सत्वे । `षष्ठ्याः पतिपुत्र-` इत्यादिना सत्वमिति स्वामी । तन्न, छन्दोविषयत्वात् । प्राञ्जलिः सन्। जलजासनं ब्रह्माणमिदमुवाच चक्षुष्ट्वारोपस्य प्रकृतोपयोगात्परिणामालङ्कारः

Showing 81 to 90 of 613 verses