कुमारसम्भवम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

कुमारसम्भवम्

Disable Parallel


Showing 71 to 80 of 613 verses
Verse 11
द्रवः संघातकठिनः स्थूलः सूक्ष्मो लघुर्गुरुः । व्यक्तो व्यक्तेतरश्चासि प्राकाम्यं ते विभूतिषु ॥
Anvaya:
(हे भगवन् !) त्वं द्रवः, सङ्घातकठिनः, स्थूलः सूक्ष्मः । त्वं लघुः गुरुः । त्वं व्यक्तः व्यक्तेतरश्च असि । विभूतिषु ते प्राकाम्यम् ।
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): द्रव इति ॥ त्वमित्यनुषज्यते । हे भगवन्, त्वं द्रवाः सरित्समुद्रादिवद्रसात्मकोऽसि । संघातेन निबिडसंयोगेन कठिनो महीधरादिवत् । स्थूल इन्द्रियग्रहणयोग्यो घटादिवत् । सूक्ष्मोऽतीन्द्रियः परमाण्वादिवत् । लधुरुत्पतनयोग्यस्तूलादिवत् । गुरुर्हेमाद्रिवदचलनीयः । व्यक्तः कार्यंरुपोऽसि । व्यक्तेतरः कारणरूपश्चासि । एव विभूतिष्वणिमादिषु ते तव । प्रकामस्य भावः प्राकाम्यं यथाकामत्वम्

Verse 12
उद्घातः प्रणवो यासां न्यायैस्त्रिभिरुदीरणम् । कर्म यज्ञः फलं स्वर्गस्तासां त्वं प्रभवो गिराम् ॥
Anvaya:
(हे भगवन् !) यासां गिराम् उद्घातः प्रणवः, त्रिभिः न्यायैः उदीरणं, कर्म यज्ञः, फलं स्वर्गः त्वं तासां गिरां प्रभवः (असि ।)
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): उद्घात इति ॥ हे भगवन्, यासां गिरां वाचामुद्घात उपक्रमः प्रणव ओंकारात्मकः । `ओंकारप्रणवौ समौ` इति । `स्यादभ्यादानमुद्घात आरम्भः` इति चामरः । इदमुपसंहारस्याप्युपलक्षणम् । `ब्रह्मणः प्रणवं कुर्यादादावन्ते च सर्वतः । दहत्येनः कृतं पूर्वं परस्ताच्च विशेषतः ॥` इति निरुक्तपरिशिष्टयोर्यास्कः । नीयन्त एभिरर्थविशेषा इति न्यायाः स्वराः । उक्तं च- स्वरविशेषादर्थप्रतिपत्तिः` । `यथेन्द्रशत्रुः स्वरतोऽपराधात्` इति । यासां गिरां त्रिभिर्न्यायैरुदात्तानुदात्तस्वरितैः स्वरैरुदीरणमुच्चारणम् । यासां कर्म, प्रतिपाद्यमित्यर्थः । यज्ञो ज्योतिष्टोमादिः । न तु चैत्यवन्दनादिरिति भावः । फलं स्वर्गः । कर्मद्वारेति शेषः । कर्मस्वर्गौ ब्रह्मापवर्गयोरप्युपलक्षणे । त्वं तासां गिरां वेदानामित्यर्थः । प्रभवत्यस्मादिति प्रभवः कारणम् । प्रणेता स्मर्ता वा मतभेदेन

Verse 13
त्वामामनन्ति प्रकृतिं पुरुषार्थप्रवर्तिनीम् । तद्दर्शिनमुदासीनं त्वामेव पुरुषं विदुः ॥
Anvaya:
(हे भगवन् !) त्वां पुरुषाऽर्थप्रवर्तिनीं प्रकृतिम् आमनन्ति । त्वाम् एव तद्दर्शिनम् उदासीनं पुरुषं विदुः ।
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): त्वामिति ॥ हे भगवन्, त्वां पुरुषस्यार्थो भोगापवर्गरुपस्तदर्थ प्रवर्तत इति पुरुषार्थप्रवर्तिनीं तां प्रकृतिं त्रैगुण्यात्मकं मूलकारणम् । `प्रकृतिः पञ्चभूतेषु प्रधाने मूलकारणम्` । इति यादवः । आमनन्ति कथयन्ति । `म्ना अभ्यासे` इति धातोर्लट् । `पाघ्राध्मास्थाम्ना-` इत्यादिना मनादेशः । प्रकृतिपुरुषभेदाग्रहणात्प्रकृतिपुरुषाभेदव्यपदेशः । त्वामेव तां प्रकृतिं साक्षित्वेन पस्यतीति तद्दर्शिनमुदासीनं कूटस्थं पुरुषं विदुर्विदन्ति । `विदो लटो वा` (पा.3|4|83) इति झेर्जुसादेशः । `अजामेकां लोहितशुक्लकृष्णाम्` इति श्रुतिरत्र प्रमाणम्

Verse 14
त्वं पितॄणामपि पिता देवानामपि देवता । परतोऽपि परश्चासि विधाता वेधसामपि ॥
Anvaya:
(हे भगवन् !) त्वं पितॄणाम् अपि पिता, देवानाम् अपि देवता, परतोऽपि परः, वेधसाम् अपि विधाता च असि ।
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): त्वमिति ॥ हे भगवन्, त्वं पितॄणामाग्निष्वात्तादीनामपि पिता । तेषामपि तर्पणीय इत्यर्थः । परतोऽपि परश्चासि । सर्वोत्तरोऽसीत्यर्थः । `इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः । मनसश्च परा बुद्धिर्बुद्धेरात्मा महास्ततः ।महतः परमव्यक्तात्पुरुषः परः । पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः ॥` इति सर्वोत्तरत्वाभिधानात् । वेधसां दक्षादीनामपि विधाता स्त्रष्टासि

Verse 15
त्वमेव हव्यं होता च भोज्यं भोक्ता च शाश्वतः । वेद्यं च वेदिता चासि ध्याता ध्येयं च यत्परम् ॥
Anvaya:
(हे भगवन् !) त्वम् शाश्वतः एव हव्यं होता च, भोज्यं भोक्ता च, वेद्यं वेदिता च, ध्याता यत् परं ध्येयं च असि ।
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): त्वमेवेति । शश्वत्सिद्धः शाश्वतः । शैषिकोऽण्प्रत्ययः । यद्यपि `कालाट्ठञ्` (पा.4|3|11) इति ठञपवादः । अत एव सूत्रकारस्यापि प्रयोगः- `येषां च विरोधः शाश्वतिकः` (पा.2|4|9) इति । तथापि प्रयोगवशात्साधुरिति वामन इति । शाश्वतः प्रयुक्तः शाश्वतस्त्वमेव । हूयत इति हव्यं हविराज्यादिकम् । जुहोतीति होता यजमानश्चासि । भोज्यमभ्यवहार्यमन्नम् । `भोज्यं भक्ष्ये` (पा.7|3|69) इति निपातनात्कुत्वाभावः । भोक्तान्नादश्चासि । वेद्यं साक्षात्कार्य वस्तुवेदिता साक्षात्कर्ता चासि । ध्याता स्मर्ता च । यत्परं वस्तु ध्येयं तच्चासि । साक्षात्कर्ता चासि । ध्याता स्मर्ता च । यत्परं वस्तु ध्येयं तच्चासि । साक्षात्कारसाधनभूतप्रत्ययविशेषप्रवाहो ध्यानम्

Verse 16
इति तेभ्यः स्तुतीः श्रुत्वा यथार्था हृदयंगमाः । प्रसादाभिमुखो वेधाः प्रत्युवाच दिवौकसः ॥
Anvaya:
वेधा इति तेभ्यः यथार्थाः हृदयङ्गमाः स्तुतीः श्रुत्वा प्रसादाऽभिमुखः (सन्) दिवौकसः प्रत्युवाच
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): इतीति ॥ वेधा ब्रह्मेति तेभ्यो देवेभ्यः । `आख्यातोपयोगे` (पा.1|4|29) इत्यपादानत्वात्पञ्चमी । यथार्थाः सत्या अत एव हृदयं गच्छन्तीति हृदयंगमा मनोहराः । खच्प्रकरणे `गमेः सुप्युपसंख्यानम्` इति खच्प्रत्ययः । `अरुर्द्विषजन्तस्य मुम्` इति मुमागमः । स्तुतीः स्तोत्राणि श्रुत्वा प्रसादाभिमुखोऽनुग्रहप्रवणः सन् । दिवौकसो देवान्प्रत्युवाच

Verse 17
पुराणस्य कवेस्तस्य चतुर्मुखसमीरिता । प्रवृत्तिरासीच्छब्दानां चरितार्था चतुष्टयी ॥
Anvaya:
चतुष्टयी शब्दानां प्रवृत्तिः पुराणस्य कवेः तस्य चर्तुर्मुखसमीरिता (सती) चरितार्था आसीत् ।
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): पुराणस्येति ॥ द्रव्यगुणक्रियाजातिभेदेन चत्वारोऽवयवा यस्या इति चतुष्टयो चतुर्विधा । `संख्याया अवयवे तयप्` (पा.5|2|42) इति तयप् । `टिङ्ढाणञ्द्वयसच्-` इत्यादिना ङीप् । शब्दानां प्रवृत्तिर्वैखरीप्रमुखा वाग्वृत्तिः । उक्तं च- `वैखरी शब्दनिष्पत्तिर्मध्यमा श्रुतिगोचरा । द्योतितार्था च पश्यन्ती सूक्ष्मा वागनपायिनी ॥` इति । पुराणास्य पुरातनस्य । पृषोदरादित्वात्साधुः । कवेः कवयितुस्तस्य ब्रह्मणश्चतुर्भिर्मुखैः समीरिता सती । `तद्धितार्थ-` इत्यादिनोत्तरपदसमासः । समाहारे चतुर्मुखीति स्यात् । चरितार्थान्वर्थासीत् । चतुर्मुखोच्चारणाच्चातुर्विध्यं सफलमासीदित्यर्थः

Verse 18
स्वागतं स्वानधीकारान्प्रभावैरवलम्ब्य वः । युगपद्युगबाहुभ्यः प्राप्तेभ्यः प्राज्यविक्रमाः ॥
Anvaya:
हे प्राज्यविक्रनाः ! स्वान् अधिकारान् प्रभावैः अवलम्ब्य युगपत् प्राप्तेभ्यः युगबाहुभ्यो वः स्वागतम्
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): स्वागतमिति ॥ हे प्राज्यविक्रमाः प्रभूतपराक्रमा देवाः । `प्राज्यं भूरिप्रभूतं च` इति यादवः । स्वान्स्वकीयानधिकारान्नियोगान् । `उपसर्गस्य घञि-` इति वा दीर्घः । प्रभावैः सामर्थ्यैरवलम्ब्यास्थाय । यथाधिकारं स्थित्वापीत्यर्थः । युगपत्समकालं प्राप्तेभ्यः । युगपत्प्राप्त्या महत्कार्यमनुमीयत इति भावः । युगबाहुभ्यः । दीर्घबाहुभ्य इत्यर्थः । अजानुबाहुत्वं भाग्यलक्षणम् । वो युष्मभ्यम् ।`बहुवचनस्य वस्नसौ` (पा.8|1|21) इति वसादेशः । `कर्मणा यमभिप्रैति-` इत्यत्र कर्मपदेन क्रियाग्रहणात्संप्रदानत्वम् । स्वागतं शोभनागमनम् । काकुरत्रानुसंधेया

Verse 19
किमिदं द्युतिमात्मीयां न बिभ्रति यथा पुरा । हिमक्लिष्टप्रकाशानि ज्योतींषीव मुखानि वः ॥
Anvaya:
(ह वत्साः !) हिमक्लिष्टप्रकाशानि ज्योतींषि इव वो मुखानि पुरा यथा आत्मीयां द्युतिं न बिभ्रति । इदं किम् ?
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): किमिति ॥ `वत्साः` इत्युत्तरश्लोकीय (४/१८) संबोधनमत्राप्यनुष़ञ्जनीयम् । हे वत्साः पुत्रकाः, हिमेन नीहारेण क्लिष्टप्रका शानि मन्दप्रभाणि ज्योतींषि नक्षत्राणीव ।`दीत्पिताराहुताशेषु ज्योतिः` इति शाश्वतः । वो युष्माकं मुखानि पुरा यथा पूर्वमिवात्मीयां द्युतिं न बिभ्रति । इदम् किम् । किंनिबन्धनमित्यर्थः । किमिदमित्यनेन वाक्यार्थः परामृश्यते

Verse 20
प्रशमादर्चिषामेतदनुद्गीर्णसुरायुधम् । वृत्रस्य हन्तुः कुलिशं कुण्ठिताश्रीव लक्ष्यते ॥
Anvaya:
अर्चिषां प्रशमात् अनुद्गीर्णसुरायुधम् एतत् वृत्रस्य हन्तुः कुलिशं कुण्ठिताश्रि इव लक्ष्यते
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): प्रशमादिति ॥ अर्चिषां तेजसां प्रशमान्निर्वाणादनुद्गीर्णसुरायुधम् । अनुदितचित्रप्रभमित्यर्थः । एतद्वृत्रस्य हन्तुरिन्द्रस्य कुलिशं वज्रम् । कुण्ठिता अश्रयो यस्य तत्कुण्ठिताश्रि कुण्ठितकोटीव लक्ष्यते दृश्यते

Showing 71 to 80 of 613 verses