शिशुपालवधम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

शिशुपालवधम्

Enable Parallel


Showing 41 to 50 of 87 verses
Verse 41
युगपद्विकासमुदयाद्गमिते शशिनः शिलीमुखगणोऽलभत । द्रुतमेत्य पुष्पधनुषो धनुषः कुमुदेऽङ्गनामनसि चावसरम् ॥
Metre: प्रमिताक्षरा

Verse 42
ककुभां मुखानि सहसोज्ज्वलयन्दधदाकुलत्वमधिकं रतये । अदिदीपदिन्दुरपरो दहनः कुसुमेषुमत्रिनयनप्रभवः ॥
Metre: प्रमिताक्षरा

Verse 43
इति निश्चितप्रियतमागतयः सितदीधितावदयवत्यबलाः । प्रतिकर्म कर्तुमुचक्रमिरे समये हि सर्वमुपकारि कृतम् ॥
Metre: प्रमिताक्षरा

Verse 44
सममेकमेव दधतुः सुतनोरु हारभूषणमुरोजतटौ । घटते हि संहततया जनितामिदमेव निर्विरतां दधतोः ॥

Verse 45
कदलीप्रकाण्डरुचिरोरुतरौ जघनस्थलीपरिसरे महति । रशनाकलापकगुणेन वधूर्मकरध्वजद्विरदमाकलयत् ॥
Metre: प्रमिताक्षरा

Verse 46
अदरेष्वलक्तकरसः सुदृशां विशदं कपोलभुवि लोध्ररजः । नवमञ्जनं नयनपङ्कजयोर्बिभिदे न शङ्खनिहितात्पयसः ॥
Metre: प्रमिताक्षरा

Verse 47
स्फुरदुज्वलाधरदलैर्विसद्दशनांशुकेशकरैः परितः । धृतमुग्धगण्डफलकैर्विबभुविकसद्भिरास्यकमलैः प्रमदाः ॥

Verse 48
भजते विदेशमधिकेन जितस्तदनुप्रवेशमथवा कुशलः । मुखमिन्दुरुज्ज्वलकपोलमतः प्रतिमाच्छलेन सुदृशामविशत् ॥
Metre: प्रमिताक्षरा

Verse 49
ध्रुवमागताः प्रतिहतिं कठिने मदनेषवः कुचतटेमहति । इतराङ्गवन्न यदिदं गरिमग्लपितावलग्नमगमत्तनुतां ॥
Metre: प्रमिताक्षरा

Verse 50
न मनोरमास्वपि विशेषविदां निरचेष्ट योग्यमिदमिति । गृहमेष्यति प्रियतमे सुदृशां वसनाङ्गरागसुमनःसु मनः ॥
Metre: गीति (१२, १८, १२, १८)

Showing 41 to 50 of 87 verses