संक्रान्तं प्रियतमवक्षसोऽङ्गरागंसाध्वस्याः सरसि हरिष्यतेऽधुनाम्भः । तुष्ट्वैवं सपदि हृतेऽपि तत्र तेपे कस्यश्चित्स्फुटनखलक्ष्मणः सपत्न्या ॥
Metre: प्रहर्षिणी
हृतायाः प्रतिसखिकामिनान्यनाम्ना ह्रीमत्याः सरसि गलन्मुखेन्दुकान्तेः । अन्तधिं द्रुतमिव कर्तुमश्रुवर्षैर्भूमानं गमयितुमीषिरे पयांसि ॥
Metre: उपजातिः
सिक्तायाः क्षणमभिषिच्य पूर्वमन्यामन्यस्याः प्रणयवता बताबलायः । कालिम्ना समधित मन्।रेव वक्त्रं प्रापाक्ष्णोर्गलदपशब्दमञ्जनाम्भः ॥
Metre: प्रहर्षिणी
उद्वोढुं कनकविभूषणान्यशक्तः सध्रीचा वलयितपद्मनालसूत्रः । आरूढप्रतिवनिताकटाक्षभारः साधीयो गुररभवद्भुजस्तरुण्याः ॥
Metre: प्रहर्षिणी
आबद्धप्रचुरपरार्घ्यकिङ्किणीको रामाणामनवरतोदगाहभाजाम् । नारावं व्यतनुत मेखलाकलापः कस्मिन्वा सजलगुणे गिरां पटुत्वम् ॥
Metre: प्रहर्षिणी
पर्यच्छे सरसि हृतेंऽशुके पयोभिर्लोलाक्षे सुरतगुरावपत्रपिष्णोः । सुश्रेण्या दलवसनेन वीचिहस्तन्यस्तेन द्रुतमकृताब्जिनि सखात्वम् ॥
Metre: प्रहर्षिणी
नारीभिर्गुरुजघनस्थलानांआस्यश्रीविजितविकासिवारिजानाम् । लोलत्वादपहरतां तदङ्गरागसंजज्ञे स कलुष आशयो जलानाम् ॥
Metre: प्रहर्षिणी
सौगन्धं दधदपि काममङ्गनानां दूरत्वाद्गतमाननोपमानम् । नेदीयो जितमिति लज्जयेव तासामालोले पयसि मनोत्पलं ममज्ज ॥
Metre: प्रहर्षिणी
प्रभ्रष्टै सरभसमम्भसोऽवगाहक्रीडाभिर्विदलितयूथिकापिशङ्गैः । आकल्पैः सरसि हिरण्मयैर्वधूनामौर्वाग्निद्युतिशकलैरिव व्यराजि ॥
Metre: प्रहर्षिणी
आस्माकी युवतिदृशामसौ तनोति च्छायेव श्रियमनपायिनीं किमेभिः । मत्वैवं स्वगुणपिधानसाभ्यसूयैः पनीयैरिति विदधाविरेऽञ्जनानि ॥
Metre: प्रहर्षिणी