शिशुपालवधम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

शिशुपालवधम्

Enable Parallel


Showing 61 to 70 of 71 verses
Verse 61
आमृष्टस्तिलकरुचः स्रजो निरस्ता नीरक्तं वसनमपाकृतोङ्गरागः । कामः स्त्रीरनुशायवानिव स्वपक्षव्याघातादिति सुतरां चकार चारूः ॥
Metre: प्रहर्षिणी

Verse 62
शीतार्तिं बलवदुपेयुषतेव नीरैरासेकाच्छिशिरसमीरकम्पितेन । रामाणामभिनवयौवनोष्मभाजोराश्लेषि स्तनतटयोर्नवंशुकेन ॥
Metre: प्रहर्षिणी

Verse 63
श्च्योतद्भिः समधिकमात्तमङ्गसङ्गाल्लावण्यन्तनुमदिवाम्बु वाससोऽन्तैः । उत्तेरे तरलतरङ्गलीलानिष्णातैरथ सरसः प्रियासमूहैः ॥
Metre: प्रहर्षिणी

Verse 64
दिव्यानामपि कृतविस्मयां पुरस्तादम्भस्तः स्फुरदरविन्दचारुहस्ताम् । उद्वीक्ष्यश्रियमिव काञ्चिदुत्तरन्तींमस्मार्षीज्जलनिधिमन्मथनस्य शौरिः ॥
Metre: प्रहर्षिणी

Verse 65
श्लक्ष्णं यत्परिहितमेतयोः किलान्तर्धानार्थं तदुकसेकसक्तमूर्वोः । नारीणां विमलतरौ समुल्लसन्त्या भासन्तर्दधतुरुरूदुकूलमेव ॥
Metre: प्रहर्षिणी

Verse 66
वासांसि न्यवसत यानि योषितस्ताः शुभ्राभ्रद्युतिभिरहासि तैर्मुदेव । अत्याक्षुः स्नपनगलज्जलानि यानि स्थूलाश्रुस्रुतिभिररोदिः तैः शुचेव ॥
Metre: प्रहर्षिणी

Verse 67
आर्द्रत्वदतिशायिनीमुपेयिवद्भिः संसक्तिं भृशमपि भूरिशोवधूतैः । अङ्गेभ्यः कथमपि वामलोचनां विश्लेषो बत नवरक्तकैः प्रपेदे ॥

Verse 68
प्रत्यंसं विलुलितमूर्धजा चिराय स्नानार्द्रं वपुरुदवापयत्किलैका । नाजानादभिमतमन्तिकेऽभिवीक्ष्य स्वेदाम्बुद्रवमभवत्तरां पुनस्तत् ॥
Metre: प्रहर्षिणी

Verse 69
सीमन्तं निजमनुबध्नती कराभ्यामालक्ष्यस्तनतटबाहुमूलभागा । भर्त्रान्या मुहुरभिलष्यता निदध्ये नैवाहो विरमति कौतुकं प्रियेभ्यः ॥
Metre: प्रहर्षिणी

Verse 70
स्वच्छाम्भःस्नपनविधौतमङ्गमोष्ठस्ताम्बूलद्युतिविशदो व्लासिनीनाम् । वासश्च प्रतनु विविक्तमस्त्वितीयानाकल्पो यदि कुसुमेषुणा न शून्यः ॥
Metre: प्रहर्षिणी

Showing 61 to 70 of 71 verses