ननु सन्दिशेति सुदृशोदितया त्रपया न किञ्चन किलाभिदधे । निजमैक्षि मन्दमनिशं निशितैः क्रशितं शरीरमशीरशरैः ॥
Metre: प्रमिताक्षरा
ब्रुवते स्म दूत्य उपसृत्य नरान्तरवत्प्रगल्भमतिगर्भगिरः । सुहृदर्थमीहितमजिह्मधियां प्रकृतेर्विराजति विरुद्धमपि ॥
Metre: प्रमिताक्षरा
मम रूपकीर्तिमहरद्भुवि यस्तदनु प्रविष्टहृदयेयमिति । त्वयि मत्सरादिव निरस्तदयः सुतरां क्षिणोति खलु तां मदनः ॥
Metre: प्रमिताक्षरा
तव सा कथासु परिघट्टयति श्रवणं यदङ्गुलिमुखेन मुहुः । घनतां ध्रुवं नयति तेन भवद्गुणपूगपूरितमतृप्ततया ॥
Metre: प्रमिताक्षरा
उपतप्यमानमलघूष्णिभिः श्वसितैः सितेतरसरोजदृशः । द्रवतां न नेतुमधरं क्षमते नवनागवल्लिदलरागरसः ॥
Metre: प्रमिताक्षरा
दधति स्फुटं रत्पतेरिषवः शिततां यदुत्पलपलाशदृशः । हृदयं निरन्तरबृहत्कठिनस्तनमणडलावरणमप्यभिदन् ॥
Metre: आर्यागीति (१२, २०, १२, २०)
कुसुमादपि स्मितदृशः सुतरां सुकुमारमङ्गमिति नापरथा । अनिशं निजैरकरुणः करुणं कुसुमेषुरुत्तपाति यद्विशिखैः ॥
Metre: प्रमिताक्षरा
विषतां निषेवितमपक्रियया समुपैति सर्वमिति सत्यमदः । अमृतुतस्रुऽपि विरहाद्भवतो यदमूं दहन्ति हिमरश्मिरुचः ॥
Metre: आर्यागीति (१२, २०, १२, २०)
उदितं प्रियां प्रति सहार्दमिति श्रदधीयत प्रियतमेन वचः । विदितेङ्गिते हि पुर एव जने सपदीरिताः खलु लगन्ति गिरः ॥
Metre: प्रमिताक्षरा
दयिताहृतस्य युवभिर्मनसः परिमूढतामिव गतैः प्रथमम् । उदिते ततः सपदि लब्धपदैः क्षणदाकरेऽनुपदिभिः प्रयये ॥
Metre: प्रमिताक्षरा