निपपात सम्भ्रमभृतः श्रवणादसितभ्रुवः प्रणदितासिकुलम् । दयितावलोकविकसन्नयनप्रसरप्रणुन्नमिव वारिरुहम् ॥
Metre: प्रमिताक्षरा
उपनेतुमुन्नतिमतेव दिवं कुचयोर्युगेन तरसा कलितां । रभसोत्थितामुपगतः सहसा परिरभ्य कञ्चन वधूमरुधत् ॥
Metre: प्रमिताक्षरा
अनुदेहमागतवतः प्रतिमां परिणायकस्य गुरुमुद्वहता । मुकुरेण वेपथुभृतोऽतिभरात्कथमप्यपाति न वधूकरतः ॥
Metre: प्रमिताक्षरा
अवनम्य वक्षसि निमग्नकुचद्वितयेन गाढमुपगूढवता । दयितेन तत्क्षणचलद्रशनाकलकिङ्किणीरवमुदासि वधूः ॥
Metre: प्रमिताक्षरा
कररुद्धनीवि दयितोपगतौ गलितं त्वराविरहितासनया । क्षणदृष्टहाटकशिलासदृशस्फुरदूरुभित्ति वसनं ववसे ॥
Metre: प्रमिताक्षरा
पिदधानमन्वगुपगम्य दृशौ ब्रुवते जनाय वद कोऽयमिति । अभिधातुमध्यवससौ न गिरा पुलकैः प्रियं नववधून्यगदत् ॥
Metre: प्रमिताक्षरा
उदितोरुसादमतिवेपथुमत्सुदृशोऽभिभर्तृ विधुरं त्रपया । वपुरादरातिशयशंसि पुनः प्रतिपत्तिमूढमपि वाढमभूत् ॥
Metre: प्रमिताक्षरा
पिमन्धराभिरलघूरुभरादधिवेश्म पत्युरुपचारविधौ । स्खलिताभिरप्यनुपदं प्रमदाः प्रणयातिभूमिमगमन्गतिभिः ॥
Metre: प्रमिताक्षरा
मधुरान्नतभ्रू ललितं च दृशोः सकरप्रयोगचतुरं च वचः । प्रकृति स्थमेव निपुणागमितं स्फुचनृत्तलीलमभवत्सुतनोः ॥
Metre: प्रमिताक्षरा
तदयुक्तमङ्ग तव विश्वसृजा न कृतं यदीक्षणसहस्रतयम् । प्रकटीकृता जगति येन खलु स्फुटमिन्द्रताद्य मयि गोत्रभिदा ॥
Metre: प्रमिताक्षरा