शिशुपालवधम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

शिशुपालवधम्

Enable Parallel


Showing 51 to 60 of 87 verses
Verse 51
वपुरन्वलिप्त परिरम्भसुखव्यवधानभीरुकतया न वधूः । क्षमस्य वाढमिदमेव हि यत्प्रियसंगमेष्वनवलेपमदः ॥
Metre: प्रमिताक्षरा

Verse 52
निजपाणिपल्लवतलस्खलनादभिनासिकविवरमुत्पतितैः । अपरा परीक्ष्य शनकैर्मुमुदे मुखवासमास्यकमलश्वसनैः ॥
Metre: प्रमिताक्षरा

Verse 53
विधृते दिवा सवयसा च पुरः परिपूर्णमण्डलविकाशभृति । हिमधाम्नि दर्पणतले च मुहुः स्वमुखश्रियं मृगदृशो ददृशुः ॥
Metre: प्रमिताक्षरा

Verse 54
अधिजानु बाहुमुपधाय नमत्करपल्लवार्पितकपोलतलम् । उदकण्ठि कण्ठपरिवर्तिकलस्वरसून्यगानपयापरया ॥
Metre: प्रमिताक्षरा

Verse 55
प्रणयप्रकाशनविदो मधुराः सुतरामभीष्टजनचित्तहृतः । प्रजिघाय कान्तमनु मुग्धतरस्तरुणीजनो दृश इवाथ सखीः ॥
Metre: प्रमिताक्षरा

Verse 56
न च मेऽवगच्छति यथा लघुतां करुणां यथा च कुरुते स मयि । निपुणं तथैनमुपगम्य वदेरभिदूति काचिदिति संदिदिशे ॥
Metre: प्रमिताक्षरा

Verse 57
दयितया मानपरयापरया त्वरितं ययावगदितापि सखी । किमु चोदिताः प्रियहितार्थकृतः कृतिनो भवन्ति सुहृदः सुहृदाम् ॥
Metre: आर्यागीति (१२, २०, १२, २०)

Verse 58
प्रतिभिद्य कान्तमपराधकृतं यदि तावदस्य पुनरेव मया । क्रियतेऽनुवृत्तिरुचितैव ततः कलयेदमानमनसं सखि माम् ॥
Metre: प्रमिताक्षरा

Verse 59
अवधीर्य धैर्यकलिता दयितं विदधे विरोधमथ तेन सह । तव गोप्यते किमिव कर्तुमिदं न सहास्मि साहसमसाहसिकी ॥
Metre: प्रमिताक्षरा

Verse 60
तदुपेत्य मा स्म तमुपालभथाः क्ल दोषमस्य न हि विद्म वयम् । इति सम्प्रधार्य रमणाय वधूर्विहितागसेऽपि विससर्ज सखीं ॥
Metre: प्रमिताक्षरा