शिशुपालवधम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

शिशुपालवधम्

Enable Parallel


Showing 31 to 40 of 87 verses
Verse 31
अथ लक्षमणागतकान्तवपुर्जलधिं विलङ्घ्य शशिदाशरथिः । परिवारितः परित ऋक्षगणैस्तिरौघराक्षसकुलं बिभिदे ॥

Verse 32
उपजीवति स्म सततं दधतः परिमुग्धतां वणिगिवोडुपतेः । घनवीथवीथिमवतीर्णवतो निधिरम्भसामुपचयाय कलाः ॥
Metre: प्रमिताक्षरा

Verse 33
रजनीमवाप्य रुचमाप शशी सपदि व्यभूषयदसावपि ताम् । अविलम्बितक्रममहो महतामितरेतरकृतिमच्चरितम् ॥
Metre: प्रमिताक्षरा

Verse 34
दिवसं भृशोष्णरुचिपादहतां रुदतीमिवानवरतलिरुतैः । मुहुरामृशन्मृगधरोऽग्रकरैरुदशिस्वसत्कुमुदिनीवनिताम् ॥
Metre: प्रमिताक्षरा

Verse 35
प्रतिकामिनीति ददृशुश्चकिताः स्मरजन्मघर्मपयसोपचिताम् । सुदृशोभिभर्तृशशैरश्मिगलज्जलबिन्दुमिन्दुमणिदारुवधूम् ॥
Metre: आर्यागीति (१२, २०, १२, २०)

Verse 36
अमृतद्रवैर्विदधब्जदृशाममपमार्गमोषधिपतिः स्म करैः । परितो विसर्पि परितापि भृशं वपुषोऽवतारयति मानविषम् ॥
Metre: आर्यागीति (१२, २०, १२, २०)

Verse 37
अमलात्मसु प्रतिफलन्नभितस्तरुणीकपोलफलकेषु मुहुः । विससार सान्द्रतरमिन्दुरुचामधिकावभासितदिशां निकरः ॥
Metre: प्रमिताक्षरा

Verse 38
उपगूढवेलमलघूर्मिभुजैः सरितामचुक्षुपदधीशमपि । रजनीकरः किमिव चित्रमदो यदुरागिणां गणमनङ्गलघुम् ॥
Metre: प्रमिताक्षरा

Verse 39
भवनोदरेषु परिमन्दतया शयितोऽलसः स्फटिकयष्टिरुचः । अवलम्ब्य जालकमुखोपगतानुदतिष्ठदिन्दुकिरणान्मदनः ॥
Metre: प्रमिताक्षरा

Verse 40
अविभावितेषुविषयः प्रथमं मदनोऽपि नूनमभवत्तमसा । उदिते दिशः प्रकटयत्यमुना यदघर्मधाम्नि धनुराचकृषे ॥
Metre: प्रमिताक्षरा