अभितिग्मरश्मि चिरमविरमादवधानखिन्नमनिमेषतया । विगलन्नमधुव्रतकुलाश्रुजलं न्ममीलदब्जनयनं नलिनी ॥
Metre: उपजातिः
अविभाव्यतारकमदृष्टहिमद्युतिबिम्बमस्तमितभानु नभः । अवसन्नतापमतमिस्रमभादपदोषतैव विगुणस्य गुणः ॥
Metre: प्रमिताक्षरा
रुचिधाम्नि भर्तरि भृशं विमलाः परलोकमभ्युपगते विवशुः । ज्वलनं त्विषः कथमितरथा सुलभोऽन्यजन्मनि स एव पतिः ॥
Metre: प्रमिताक्षरा
विहिताञ्जलिर्जनतया दधती विकसत्कुसुम्भकुसुमारुणताम् । चिरमुज्झितापि तनुरौज्झदसौ न पितृप्रसूः प्रकृतिमात्मभुवः ॥
Metre: प्रमिताक्षरा
अथ सान्द्रसान्ध्यकिरणारुणितं हरिहेतिहूति मिथुनं पततोः । पृथगुत्पपात विरहार्तिदलद्धृदयस्रुतासृगनुलिप्तमिव ॥
Metre: प्रमिताक्षरा
निलयः श्रियः सततमेतदिति प्रथितं यदेव जलजन्म तया । दिवसात्ययात्तदपि मुक्तमहो चपलाजनं प्रति न चोद्यमदः ॥
Metre: प्रमिताक्षरा
दिवसोऽनुमित्रमगमद्वलयं किमिहास्यते बत मयाबलया । रुचिभर्तुरस्य विरहाधिगमादिति संध्ययापि सपदि व्यगमि ॥
Metre: प्रमिताक्षरा
पतिते पतङ्गमृगराजि निजप्रतिबिम्बरोषित इवाम्बुनिधौ । अथ नागयूथमलिनानि जगत्परितस्तमांसि परितस्तरिरे ॥
Metre: प्रमिताक्षरा
व्यसरन्नु भूधरगुहान्तरतः पचलं बहिर्भहलपङ्करुचि । दिवसावसानपटुनस्तमसो बहिरेत्य चाधिकमभक्त गुहाः ॥
Metre: प्रमिताक्षरा
किमलम्बताम्बरविलग्नमधः किमवर्धतोर्ध्वमवनीतलतः । विससार तिर्यगथ दिग्भ्य इति प्रचुरीभवन्न निरधारि तमः ॥
Metre: प्रमिताक्षरा