पीतशीतधुमधुरैर्मिधुनानामाननैः परिहृतं चषकान्तः । व्रीडया रुददिवालिविरावैर्नीलनीरजमगच्छदधस्तात् ॥
Metre: स्वागता
प्रातिभत्रिसरकेण गतानां वक्रवाक्यरचनारमणीयः । गूढसूचितरहस्यसहासः सुभ्रुवां प्रववृते परिहासः ॥
Metre: स्वागता
हावकारि हसितं वचनानां खौशलं दृशि विकारविशेषाः । चकिरे भृशमृजोरपि वध्वाः कामिनेव तरुणेन मदेन ॥
Metre: आर्यागीति (१२, २०, १२, २०)
अप्रसन्नमपराद्धरि पत्यौ कोपदीप्तमुररीकृतधैर्यम् । क्षालितं नु शमितं नु वधूनां द्रवितं नु हृदयं मधुवारैः ॥
Metre: आर्यागीति (१२, २०, १२, २०)
सन्तमेव चिरप्रकृतत्वादप्रकाशितमद्द्युतङ्गे । विभ्रमं मधुमदः प्रमदानां धातुलीनमुपसर्ग इवार्थम् ॥
Metre: गीति (१२, १८, १२, १८)
सावशेषपदमुक्तमुपेक्षा स्रस्तमाल्यवसनाभरणेषु । गन्तुमुत्थिमकारणतः स्म द्योतयन्ति मदविभ्रममासाम् ॥
Metre: आर्यागीति (१२, २०, १२, २०)
मद्यमन्दविगलत्त्रपमीषच्चक्षुरुन्मिषितपक्ष्म दधत्या । वीक्ष्यते स्म शनकैर्नववध्वा कामिनोमुखमधोमुखयैव ॥
Metre: स्वागता
या कथञअचन सखीवचनेन प्रागभिप्रियतमं प्रजगल्भे । व्रीडाजाड्यमभजन्मधुपा सा स्वां मदात्प्रकृतिमेति हि सर्वः ॥
छादितः कथमपि त्रपययान्तर्यः प्रियं प्रति चिराय रमण्याः । वारुणीमदविशङअगमथाविश्चक्षुषोऽभवदसाविव रागाः ॥
आगतानगणितप्रतियातान्वल्लभानभिसिसारयिषूणाम् । प्रापि चेतसि सविप्रतिसारे सुभ्रुवामवसरः सरकेण ॥
Metre: स्वागता