शिशुपालवधम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

शिशुपालवधम्

Enable Parallel


Showing 11 to 20 of 66 verses
Verse 12
उदयमुदितदीप्तिर्याति यः संगतौ मे पतति न वरमिन्दुः सोऽपरामेष गत्वा । स्मितरुचिरिव सद्यः साभ्यसूयं प्रभेति स्फुरति विशदमेषा पूर्वकाष्ठाङ्गनायाः ॥
Metre: मालिनी

Verse 13
चिररतिपरिखेद प्राप्तनिद्रासुखानां चरममपि शयित्वा पूर्वमेव प्रबुद्धाः । अपरिचलितगात्राः कुर्वतेन प्रियाणामशिथिलभुजचक्राश्लेषभेदं तरुण्यः ॥
Metre: मालिनी

Verse 14
कृतधवलिमभेदैः कुङ्कुमेनेव किञ्चिन्मलयरुहरजोभिर्भूषयन्पश्चिमाशाम् । हिमरुचिररुणिम्ना राजते रज्यमानैर्जरठकमलकन्दच्छेदगौरैर्मयूखैः ॥
Metre: मालिनी

Verse 15
दधदसकलमेकं खण्डितामानमद्भिः श्रियमपरमपूर्णामुच्छ्वसद्भिः पलाशैः । कलरवमुपगीते षट्पदौघेन धत्तः कुमुदकमल षण्डे तुल्यरूपामवस्थाम् ॥
Metre: मालिनी

Verse 16
मदरुचिमरुणेनोद्गच्छता लम्भितस्य त्यजत इव चिराय स्थायिनीमाशु लज्जाम् । वसनमिव मुखस्य स्रंसते संप्रतीदं सितकरकरजालं वासवाशायुवत्याः ॥
Metre: मालिनी

Verse 17
अविरतरतलीलायाःसजातश्रमाणामुपशममुपयान्तं निःसहेऽङ्गेऽङ्गनानाम् । पुनरुषसि विविक्तैमर्मातरिश्वावचूर्ण्य ज्वलयति मदनाग्निं मालतीनां रजोभिः ॥
Metre: मालिनी

Verse 18
अनिमिषमविरामा रागिणां सर्वरात्रं नवनिधुवनलीलाः कौतुकेनातिवीक्ष्य । इदमुदवसितानामस्फुटालोकसंपन्नयनमिव सनिद्रं घूर्णते दैपमर्चिः ॥
Metre: मालिनी

Verse 19
विकचकमलगन्धैरन्धयन्भृङ्गमालाः सुरभितमकरन्दं मन्दमावाति वातः । प्रमदनमदनमाद्यद्यौवनोद्दामरामारमणरभसखेदस्वेदविच्छेददक्षः ॥
Metre: मालिनी

Verse 20
लुलितनयनताराः क्षामवक्त्रेन्दुबिम्बा रजनय इव निन्द्राक्लान्तनीलोत्पलाक्ष्यः । तिमिरमिव दधानाः स्रंसिनः केशपाशानवनिपतिगृहेभ्यो यान्त्यमूर्वारवध्वः ॥
Metre: मालिनी

Verse 21
शिशिरकिरणकान्तं वासरान्तेऽभिसार्य श्वसनसुरभिगन्धिः साम्प्रतं सत्वरेव । व्रजति रजनिरेषा तन्मयूखाङ्गरागैः परिमलितमनिन्द्यैरम्बरान्तं वहन्ती ॥
Metre: मालिनी

Showing 11 to 20 of 66 verses