नानाविधाविष्कृसामजस्वरः सहस्रवर्त्मा चपलैर्दुरध्ययः । गान्धर्वभूय्ष्ठतया समानतां स सामवेदस्य दधौ बलोदधिः ॥
Metre: वंशस्थम्
प्रत्यन्यनागं चल्तस्तरावता निरस्य कुण्ठं दधतान्यमङ्कुशम् । मूर्धानमूर्ध्वायतदन्तमण्डलं धुवन्नरोधि द्विरदां निषादिना ॥
Metre: वंशस्थम्
समूर्च्छदुच्छृङ्खलशङ्खनिस्वनः स्वनः प्रयाते पटहस्य शार्ङ्गिणि । स्वानिनिन्ये नितरां महान्त्यपि व्यथां द्वयेषामपि मेदिनीघृताम् ॥
Metre: वंशस्थम्
कालीयकक्षोदविलेपनश्रियं दिशद्दिशमुल्लसदंशुमद्द्युति । खातं खुरैमुद्गभुजां विपप्रते गिरेरधः काञ्चनभूमिजं रजः ॥
मन्द्रैगजानां रथमण्डलस्वनैर्निजुह्नुवे तादृशमेव बृंहितम् । तारैर्बभूवे परभागलाभतः परिश्फुटैस्तेषु तुरङ्गहेषितैः ॥
अन्वेतुकामोऽवमताङ्गुशग्रहस्तिरोगतं साङ्गुशमुद्वहञ्शिरः । स्थूलोच्चयेनागमदन्तिकगतां गजोऽग्रयाताग्रकरः करेणुकाम् ॥
यन्तोऽस्पृशन्तश्चरणैरिवावनिं जवात्प्रकीर्णैरभितः प्रकीर्णकैः । अद्यापि सेनातुरगाः सविस्मयैरलूनपक्षा इव मेनिरे जनैः ॥
ऋज्वीर्दधानैरवतत्य कन्धराश्चलावचूडाः कलाघर्घररारवैः । भूमिर्महत्यप्यविलम्बितक्रमं क्रमेलकैस्तक्षणमेव चिच्छिदे ॥
Metre: इन्द्रवंशा
तूर्ण प्रणेत्रा कृतनादमुच्चकैः प्रणोदितं वेसरयुग्मध्वनि । आत्मीयनेमिक्षतसान्द्रमेदिनीरजश्चयाक्रान्तभयादिवाद्रवत् ॥
Metre: इन्द्रवज्रा
व्यावृत्तवक्त्रैरखिलैश्चमूचरैर्व्रजिद्भिरेव क्षणमीक्षिताननाः । वल्गद्गरीयःस्तनकम्प्रकञ्चुकं ययुस्तुरङ्गाधिरुहोऽवरोधिकाः ॥