निम्नानि दुःखादवतार्य सादिभिः सयत्नमाकृष्टकशाः शनैः शनैः । उत्तेरुरुत्तालखुरारवं द्रुताः श्लथीकृतप्रग्रहमर्वतां व्रजाः ॥
अध्यध्वमारूढवतैव केनचित्प्रतीक्षमाणेन जनं मुहुर्धृतः । दाक्ष्यं हि सद्यः फलदं यदग्रतश्चखाद दासेरयुवा वनावलीः ॥
शौरेः प्रतापोपनतैरितस्ततः समागतैः प्रश्रयनम्रमूर्तिभिः । एकातपत्रा पृथिवीभृतां गणैरभूदबहुच्छात्रतया पताकिनी ॥
Metre: इन्द्रवंशा
आगच्छतोऽनूचिगजस्य घण्डयोः स्वनं समापकर्ण्य समाकुलाङ्गनाः । दूरापवर्तितभारवाहणाः पथोऽपस्रुस्त्वरितं चमूचराः ॥
Metre: उपजातिः
ओजस्विवर्णोज्वलवृत्तशालिनः प्रसादिनोऽनुज्झित गोत्रसंविदः । श्लोकानुपेन्द्रस्य पुरः स्म भूयसो गुणान्समुद्दिश्य पठन्ति वन्दिनः ॥
निःश्शेषमाक्रान्तमहीतलो जलैश्चलन्समुद्रोऽपि समुज्झति स्थितिम् । ग्रामेषु सैन्यैरकरोदवारितैः किमव्यवस्थां चलितोऽपि केशवः ॥
कोशातकीपुष्पगुलुच्छकान्तिभिर्मुखैर्विनिद्रोल्बणबाणचक्षुषः । ग्रामीणवध्वस्तमलक्षिता जनैश्चिरं मृतानामुपरि व्यलोकयन् ॥
गोष्ठेषु गोष्ठीकृतमण्डलासनान्सनादमुत्थाय मुहुः स वल्गतः । ग्राम्यानपश्यत्कपिशं पिपासतः स्वगोत्रसङ्कीर्तनभावितात्मनः ॥
पश्यन्कृतार्थैरपि वल्लवीजनो जनाधिनाथं न ययौ वितृष्णताम् । एकान्तमौग्ध्यानवबुद्धविभ्रमैः प्रसिद्धविस्तारगुणैर्विलोचनैः ॥
प्रीत्या नियुक्तांल्लिहती स्तनन्धयान्निगृह्य पारीमुभयेन जानुनोः । वर्धिष्णुधाराध्वनि रोहिणीः पयश्चिरं निदधौ दुहतः स गोदुहः ॥