अभ्याजतोऽभ्यागततूर्णतर्णकान्निर्याणहस्तस्य पुरोदुधुक्षतः । वर्गाद्गवां हुंकृतिचारु निर्यतीमरिर्मधोरैक्षत गोमततल्लिकाम् ॥
Metre: इन्द्रवंशा
स व्रीहिणां यावदपासितुं गताः शुकान्मृगैस्तावदुपद्रुतश्रियाम् । कैदारिकाणामभितः समाकुलाः सहासमालोकयति स्म गोपिकाः ॥
व्येद्धुमस्मानवधानतः पुरा चलत्यसवित्युपकर्णयन्नसौ । गीतानि गोप्याः कलमं मृगव्रजो न नूनमत्तीति हरिव्यलोकयत् ॥
लीलाचलत्स्त्रीचरणारुणोत्पलस्खलत्तुलाकोटिनिनादकोमलः । शौरेरुपानूपमापाहरन्मनः स्वनान्तरादुन्मदसारसारवः ॥
Metre: उपजातिः
उच्चैर्गतामस्खलितां गरीयसीं तदातिदूरादपि तस्य गच्छतः । एके समूहुर्बलरेणुसंहतिं शिरोभिराज्ञामपरे महीभृतः ॥
प्रायेण नीचानपि मेदिनीभृतो जनः समेनैव पथाधिरोहति । सेना मुरारेः पथ एव सा पुनर्महामहीध्रान्परितोऽध्यरोहयत् ॥
दन्ताग्रनिर्भिन्नपयोदमुन्मुखाः शिलोच्चयानारुरुहुर्महीयसः । तिर्यक्कटप्लाविमदाम्बुनिम्नगाविपूर्यमाणश्रवणोदरमं द्विपाः ॥
Metre: इन्द्रवंशा
श्च्योतमन्मदाम्भकणकेन केनचिज्जनस्य जीमूतकदम्बकद्युता । नगेन गरीयसोच्चकैररोधि पन्थाः पृथुदन्तशालिना ॥
भग्नद्रुमाश्चक्रुरितस्ततो दिशः समुल्लसत्केतननाकुलाः । पिष्टाद्रिपृष्ठास्तरसा च दन्तिनश्चलन्निजाङ्गाचलदुर्गमा भुवः ॥
Metre: इन्द्रवज्रा
आलोकयामास हरिर्महीधरानधिश्रयन्तीर्गजताः परःशताः । उत्पातवातप्रतिकूलपातिनीरुपत्यकाभ्यो बृहतीः शिला इव ॥