पादैः पुरः कूबरिणां विदारिताः प्रकाममाक्रान्ततलास्ततो गजैः । भग्नोन्नतानन्तरपूरितान्तरा बभुर्भुवः कृष्टसमीकृता इव ॥
दुर्दुन्तमुपकृत्य निरस्तसादिनं सहासहाकारमलोकयज्जनः । पर्याणतः स्रस्तमुरोविलम्बिनस्तुरङ्गमं प्रद्रुतमेकया दिशा ॥
भूभृद्भिरप्यस्खलिताः खलून्नतैरप्यपह्नवाना सरितः पृथूरपि । अन्वर्थसंज्ञयैव परं त्रिमार्गगा ययावसंख्यैः पथिभिश्चमूरसौ ॥
त्रस्तौ समासन्नकरेणुसूत्कृतान्नियन्तरि व्याकुलमुक्तरज्जुके । क्षिप्तावरोधाङ्गनमुत्पथेन गां विलङ्घ्य लघ्वीं करभौ बभञ्जतुः ॥
स्रस्ताङ्गसन्धौ विगताशापाटवे रुजा निकामं विकलीकृते रथे । आप्तेन तत्क्षणा भिषजेव तत्क्षणं प्रचक्रमे लङ्घनपूर्वकः क्रमः ॥
Metre: वंशस्थम्
धूर्भङ्गसंक्षोभविदारितोष्ट्रिका गलन्मधुप्लावितदूरवर्त्मनि । स्थाणौ निषङ्गिण्यनसि क्षणं पुरः शुशोच लाभाय कृतक्रयो वणिक् ॥
भेरिभिराक्रुष्टमहागुहामुखो ध्वजांशुकैस्तर्जितकन्दलीवनः । उत्तङ्गमातङ्गजितालघूपलो बलैः स पश्चात्कियते स्म भूधरः ॥
Metre: उपजातिः
वन्येभदानानिलगन्धददुर्धुराः क्षणं तरुच्छेदविनोदितक्रुधः । व्यालद्विपा यन्तृभिरुन्मतिष्णवः कथंचिदीरादपनयेन निन्यिरे ॥
तैर्वजयन्तीवनराजिराजिभिर्गिरिप्रतिच्छन्दमहामतङ्गजैः । बह्व्यः प्रसर्पज्जनतानानदीशतैर्भुवो बलैरन्तरायामबभूविरे ॥
तस्थेमुहूर्त हरिणीविलोचनैः सदृशि दृष्ट्वा नयनानि योषिताम् । त्वाथ सत्रासमनेकविभ्रमक्रियाविकाराणि मृगैः पलाय्यत ॥