शिशुपालवधम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

शिशुपालवधम्

Enable Parallel


Showing 21 to 30 of 69 verses
Verse 21
विकसत्कलायकुसुमासितद्युतेरलघूडुपाण्डु जगतामधीशितुः । यमुनाह्रदोपरिगहंसमण्डलद्युतिजिष्णु जिष्णुरभृतोष्णवारणम् ॥
Metre: मञ्जुभाषिणी

Verse 22
पवनात्मजेन्द्रसुतमध्यवर्तिना नितरामरोचि रुचिरेण चक्रिणा । दधतेव योगमुभयग्रहान्तरस्थितिकारितं दुरुधराख्यमिन्दुना ॥
Metre: मञ्जुभाषिणी

Verse 23
वशिनं क्षितेरयनयाविवेश्वरं नियमो यमश्च नियतं यतिं यथा । विजयश्रिया वृतमिवार्कमारुतावनुसस्रतुस्तमथ दस्रयोः सुतौ ॥
Metre: मञ्जुभाषिणी

Verse 24
मुदितैस्तदेति दितिजन्मनांरिपावविनीयसम्भ्रमविकासिभक्तिभिः । उपसेदिवद्भिरुपदेष्टरीव तैर्ववृते विनीतमविनीतशासिभिः ॥
Metre: मञ्जुभाषिणी

Verse 25
गतयोरभेदमिति सैन्ययोस्तयोरथ भानुतजह्नुतनयाम्भसोरिव । प्रतिनादितामरविमानमानकैर्नितरां मुदा परमयेव दध्वने ॥
Metre: मञ्जुभाषिणी

Verse 26
मखमाक्षितुं क्षितिपतेरुपेयुषां परितः प्रकल्पितनिकेतनं बहिः । उपरुध्यमानमिव भूभृतां बलैः पुटभेदनं दनुसुतारिरैक्षत ॥
Metre: मञ्जुभाषिणी

Verse 27
प्रतिनादपूरितदिगन्तरः पतन्पुरगोपुरं प्रति स सैन्यसागरः । रुरुचे हिमाचलगुहामुखोन्मुखः पयसां प्रवाह इव सौरसैन्धवः ॥
Metre: मञ्जुभाषिणी

Verse 28
असकृद्गृहीतबहुदेहसम्भवस्तदसौ विभक्तनवगोपुरान्तरम् । पुरुषः पुरं प्रविशति स्म पञ्चभिः सममिन्द्रियैरिव नरेन्द्रसूनुभिः ॥
Metre: मञ्जुभाषिणी

Verse 29
तनुभिस्त्रिनेत्रनयनानवेक्षितस्मरविग्रहद्युतिभिरद्युतन्नराः । प्रमदाश्च यत्र खलु राजयक्ष्मणः परतो निशाकरमनोरमैर्मुखैः ॥
Metre: मञ्जुभाषिणी

Verse 30
अवलोकनाय सुरविद्विषां द्विषः पटहप्रणादविहितोपहूतयः । अवधीरितान्यकरणीयसत्वराः प्रतिरथ्यमीयुरथ पौरयोषितः ॥
Metre: मञ्जुभाषिणी