गतया निरन्तरनिवासमध्युरः परिनाभि नूनमवमुच्य वारिजम् । कुरराजनिर्दय निपीडनाभयान्मुखमध्यरोहि मुरविद्विषः श्रिया ॥
Metre: मञ्जुभाषिणी
शिरसि स्म जिघ्रति सुरारिबन्धने छलवामनं विनयवामनं तदा । यशसेव वीर्यविजितामरद्रुमप्रसवेन वासितशिरोरुहे नृपः ॥
Metre: मञ्जुभाषिणी
सुखवेदनाहृषितरोमकूपया शिथिलीकृतेऽपि वसुदेवजन्मनि । कुरुभर्तुरङ्गलतया न तत्यजे विकसत्कदम्बनिकुरम्बचारुता ॥
Metre: मञ्जुभाषिणी
इतरानपि क्षितिभुजोऽनुजन्मनः प्रमनाः प्रमोदपरिफुल्लचक्षुषः । स यथोचितं जनसभाजनोचितः प्रसभोद्धृतासुरसभोऽसभाजयत् ॥
Metre: मञ्जुभाषिणी
समपेत्य तुल्यमहसः शिलाघनान्घनपक्षदीर्घतरबाहुशालिनः । परिशिश्लिषुः क्षितिपतीन्क्षितीश्वराः कुलिशात्परेण गिरयो गिरीनिव ॥
Metre: मञ्जुभाषिणी
इभकुम्भतुंङ्गकठिनेतरेतरस्तनभारदूरविनिवारितोदराः । परिफुल्लगण्डफलकाः परस्परं परिरेभिरे कुकुरकौरवस्त्रियः ॥
Metre: मञ्जुभाषिणी
रथवाजिपत्तिकरिणीसमाकुलं तदनीकयोः समगत द्वयं मिथः । दधिरे पृथक्करिण एव दूरतो महतां हि सर्वमथवा जनातिगम् ॥
Metre: मञ्जुभाषिणी
अधिरुह्यतामिति महीभृतोदितः कपिकेतुनार्पितकरो रथं हरिः । अवलम्बितैलविलपाणिपल्लवः श्रयति स्म मेघमिव मेघवाहनः ॥
Metre: मञ्जुभाषिणी
रथमास्थितस्य च पुराभिवर्तिनस्तिसृणां पुरामिव रिपोर्मुरद्विषः । अथ धर्ममूर्तिरनुरागभावितः स्वयमादित प्रवयणं प्रजापतिः ॥
Metre: मञ्जुभाषिणी
शनकैरथास्य तनुजालकान्तरस्फुरितक्षपाकरकरोत्कराकृति । पृथुफेनकूटमिव निम्नगापतेर्मरुतश्च सूनुरघुवत्प्रकीर्णकम् ॥
Metre: मञ्जुभाषिणी