शिशुपालवधम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

शिशुपालवधम्

Enable Parallel


Showing 21 to 30 of 66 verses
Verse 22
नवकुमुदवनश्रीहासकेलिप्रसङ्गादधिकरुचिरशेषामप्युषां जागरित्वा । अयमपरदिशोऽङ्गे मुञ्चति स्रस्तहस्तः शिशयिषुरपि पाण्डुं म्लानमात्मानमिन्दुः ॥
Metre: मालिनी

Verse 23
सरभसपरिरम्भारम्भसंरम्भभाजा यदधिनिशमपास्तं वल्लभेनाङ्गनायाः । वसनमपि निशान्ते नेष्यते तत्प्रदातु रथचरणविशालश्रेणिलोलेक्षणेन ॥
Metre: मालिनी

Verse 24
सपदि कुमुदिनीभिर्मीलितं हा क्षपापि क्षयमगमदपेतास्तारकास्ताः समस्ताः । इति दयितकलत्रश्चिन्तयन्नङ्गमिन्दुर्वहति कृशमशेषं भ्रष्टशोभं शुचेव ॥
Metre: मालिनी

Verse 25
व्रजतिविषयमक्ष्णामंशुमाली न यावत्तिमिरमखिलमस्तं तावदेवारुणेन । परपरिभवि तेजस्तन्वतामाशु कर्तुं प्रभवति हि विपक्षोच्छेदमग्रेसरोऽपि ॥
Metre: मालिनी

Verse 26
विगततिमिरपङ्गं पश्यति व्योम यावद्धुवति विरहखिन्नः पक्षती यावदेव । रथचरणसमाह्वस्तावदौत्सुक्यनुन्ना सरिदपरतटान्तादागता चक्रवाकी ॥
Metre: मालिनी

Verse 27
मुदितयुवमनस्कास्तुल्यमेव प्रदोषे रुचमदधुरुभय्यः कल्पिता भूषिताश्च । परिमलरुचिराभिर्न्यक्कृतास्तु प्रभाते युवतिभिरुपभोगान्नीरुचः पुष्पमालाः ॥
Metre: मालिनी

Verse 28
विलुलितकमलौघः कीर्णवल्लीवितानः प्रतिवनमवधूताशेषशाखिप्रसूनः । क्वचिदयमनवस्थः स्थास्नुतामेति वायुर्वधुकुसुमविमर्देद्गन्धिवेश्मान्तरेषु ॥
Metre: मालिनी

Verse 29
नखपदवलिनाभीसन्धिभागेषु लक्ष्यः क्षतिषु च दशनानामङ्गनायाः सशेषः । अपि रहसि कृतानां वाग्विहीनोऽपिजातः सुरतविलसितानां वर्णको वर्णकोऽसौ ॥
Metre: मालिनी

Verse 30
प्रकटमलिनलक्ष्मा मृष्टपत्रावलीकैरधिगतरतिशोभैः प्रत्युषः प्रोषितश्रीः । उपहसित इवासौ चान्द्रमाः कामिनीनां परिणतशरकाण्डापाण्डुभिर्गण्डभागैः ॥
Metre: मालिनी

Verse 31
सकलमपि निकामं कामलोलान्यनारीरतिरभसविमर्दैर्भिन्नवत्यङ्गरागे । इदमतिमहदेवाश्चर्यमाश्चर्यधाम्नस्तव खलु मुखरागो यन्न भेदं प्रयातः ॥
Metre: मालिनी