मा पुनस्तमभिसीसरमागस्कारिणं मदविमोहितचित्ता । योषिदित्यभिलाष न हालां दुस्त्यजः खलु सुखादपि मानः ॥
Metre: आर्यागीति (१२, २०, १२, २०)
ह्रीविमोहमहरद्दयितानामन्तिकं रतिसुखाय निनाय । सप्रसादमिव सेवितमासीत्सद्य एव फलदं मधु तासाम् ॥
Metre: स्वागता
दत्तमात्तमदनं दयितेन व्याप्तमतिशाकेन रसेन । सस्वदे मुखसुरं प्रमदाभ्यो नाम रूढमपि च व्युदपादि ॥
Metre: आर्यागीति (१२, २०, १२, २०)
लब्धसौरभगुणो मदिराणामङ्गनास्यचषकस्य च गन्धः । मोदितालिरितरेतरयोगादन्यतामभजतातिशयं नु ॥
Metre: स्वागता
मानभङ्गपचटुना सुरतेच्छां तन्वता प्रथयता दृशि रागम् । लेभिरे सपदि भावयतान्तर्योषितः प्रणयिनेव मदेन ॥
Metre: स्वागता
पानधौतनवयावकरागं सुभ्रुवो निभृतचुम्बनदक्षाः । प्रेयसामधररागरसेन स्वं किलाधरमुपालि ररञ्जुः ॥
Metre: स्वागता
अर्पितं रसितवत्यपि नामग्राहमन्ययुवतेर्दयितेन । उज्झति स्म मदमप्यपिबन्ती वीक्ष्य मद्यमितरा तु ममाद ॥
Metre: स्वागता
अन्यान्यवनितागतचित्तं चित्तनाथमभिशङ्कितवत्या । पीतभूरिसुरयापि नमेदे निर्वृतिर्हिमनसो मदहेतुः ॥
Metre: आर्यागीति (१२, २०, १२, २०)
कोपवत्यनुनयानगृहीत्वा प्रागथो मधुमदाहितमोहा । कोपितं विरहखेदितचित्ता कान्तमेव कलयन्त्यनुनिन्ये ॥
Metre: स्वागता
कुर्वता मुकुलिताक्षियुगानामङ्गसादमवसादितवगचाम् । ईर्ष्ययेव हरता ह्रियमासां तद्गुणः स्वयमकारि मदेन ॥
Metre: आर्यागीति (१२, २०, १२, २०)