संकथेच्छुरभिधातुमनीशा संमुखी न च बभूव दिदृक्षुः । स्पर्शनेन दयितस्य नतभ्रूरङ्गचपलापि चकम्पे ॥
Metre: स्वागता
उत्तरीयविनयात्त्रपमाणा रुन्धती किल तदीक्षणमार्गम् । आचरिष्ट विकटेन विवोढुर्वक्षसैव कुचमणडलमन्या ॥
Metre: आर्यागीति (१२, २०, १२, २०)
अंशुकं हृतवता तनुबाहुस्वस्तिकापिहितमुग्धकुचाग्रा । भिन्नशङ्खवलयं परिणेत्रा पर्यरम्भि रभसादचिरोढा ॥
Metre: स्वागता
संजहार सहसा परिरब्धप्रेयसीषु विरहय्य विरोधम् । संहितं रतिपतिः स्मितभिन्नक्रोधमाशु तरुणेषु महेषुम् ॥
Metre: स्वागता
स्रंसमानमुपयन्तरि वध्वाः श्लिष्टवत्युपसपक्षि रसेन । आत्मनैव रुरुधे कृतिनेव स्वसङ्गि वसनं जघनेन ॥
Metre: गीति (१२, १८, १२, १८)
पीडिते पुर उरः प्रतिषेधं भर्तरि स्तनयुगेन युवत्याः । स्पष्टमेव दलतः प्रतिनार्यस्तन्मयत्वमभवद्धृदयस्य ॥
Metre: स्वागता
दीपितस्मरमुरस्यपपीडं वल्लभे घनमभिष्वजमाने । वक्रतां न ययतुः कुचकुम्भौ सुभ्रुवः कठिनतातिशयेन ॥
Metre: स्वागता
संप्रवेष्टुमिव योषित ईषुः श्लिष्यतां हृदयमिष्टतमानाम् । आत्मनः सततमेव तदन्तर्वर्तिनो न खलु नूनमजानन् ॥
Metre: स्वागता
स्नहनिर्भरमदत्त वधूनामार्द्रतां वपुरसंशयमन्तः । यूनि गाढपरिरम्भिणि वस्त्रक्नोपमम्बु ववृषे यदनेन ॥
Metre: आर्यागीति (१२, २०, १२, २०)
न स्म माति वपुषः प्रमदानामन्तरिष्टतमसङ्गमजन्मा । तद्बहुर्बहिरवाप्य विकासं व्यानशे तनुरुहाण्यपि हर्षः ॥
Metre: स्वागता