यत्प्रियव्यतिकराद्वनितानमङ्गजेन पुलकेन बभूवे । प्रापि तेन भृशमुच्छ्वसिभिर्नीविभिः सपदि बन्धनमोक्षः ॥
Metre: स्वागता
ह्रीभरादवनतं परिरम्भे रागवानवटुजेष्ववकृष्य । अर्पितोष्ठदलमाननपद्मं योषितो मुकुलिताक्षमधासीत् ॥
Metre: स्वागता
पल्वोपमितसाम्यसपक्षं दष्टत्यधरबिम्बमभीष्टे । पर्यकूजि सरुजेव तरुण्यास्तारलोलवलयेन करेण ॥
Metre: गीति (१२, १८, १२, १८)
केनचितन्मधुरमुल्बणरागं बाष्पतप्तमधिकं विरहेषु । ओष्ठपल्लवमवाप्य मुहूर्त सुभ्रुवः सरसमक्षि चुचुम्बे ॥
Metre: आर्यागीति (१२, २०, १२, २०)
रेचितं परिजनेन महीयः केवलाभिरतदम्पति धाम । साम्यमाप कमलासखविष्वक्सेनसेवितयुगान्तपयोधेः ॥
Metre: स्वागता
आवृतान्यपि निरन्तरमुच्चैर्योषितामुरसिजद्वतयेन । रागिणामित इतो विमृशद्भिः पाणिभिर्जगृहिरे हृदयानि ॥
Metre: स्वागता
कामिनामसकलानि विभुग्नैः स्वदवारिमृदुभिः करजाग्रैः । आक्रियन्त कठिनेषु कथञ्चित्कामिनीकुचतटेषु पदानि ॥
Metre: आर्यागीति (१२, २०, १२, २०)
सोष्मणः स्तनशिलाशिखराग्रादात्तघर्मसलिलैस्तरुणानाम् । उच्छ्वसत्कमलचारुषु हस्तैनिम्ननाभिसरसीषु निपेते ॥
Metre: स्वागता
आमृशद्भिरभितो वलिवीचिर्लोलमानवितताङ्गुलिहस्तैः । सुभ्रुवामनुभवात्प्रतिपेदे मुष्टिमेयमिति मघ्यमभीष्टैः ॥
Metre: स्वागता
प्राप्य नाभिनदमज्जनमाशु प्रस्थितं निवसनग्रहणाय । औपनीविकमरुन्ध किल स्त्री वल्लभस्य करमात्मकराभ्याम् ॥
Metre: स्वागता