अन्यकालपरिहार्यमजस्रं तद्द्वयेन विदधे द्वयमेव । धृष्टता रहसि भर्तृषु ताभिर्निर्दयत्वमितरैरबलासु ॥
Metre: स्वागता
बाहुपीडनकचग३हणाभ्यामाहतेन नखदन्तनिपातैः । बोधितस्तनुशयतरुणीनामुन्मिमील विशदं विषमेषु ॥
Metre: आर्यागीति (१२, २०, १२, २०)
कान्तया सपदि कोऽप्युपगूढः प्रौढपाणिरपनेतुमियेष । संहतस्तनतिरस्कृतदृष्टिर्भ्रष्टमेव न दुकूलमपश्यत् ॥
Metre: स्वागता
आहतं कुचतटेन तरुण्याः साधु सोढममुनेति पपात । त्रुट्यतः प्रियतमोरसि हारात्पुष्पवृष्चटरिव मौक्तिकवृष्टिः ॥
Metre: स्वागता
सीत्कृतानि मणितं करुणोक्तिः स्निग्धमुक्तमलमर्थवचांसि । हासभूषणरवाश्च रमण्याः कामसूत्रपदतामुपजग्मुः ॥
Metre: स्वागता
उद्धतैर्निभृतमेकमनेकैश्छदवन्मृगदृशामविरामैः । श्रूयते स्म मणितं कलकाञ्चीनूपुरध्वनिभिरक्षतमेव ॥
Metre: आर्यागीति (१२, २०, १२, २०)
ईदृशस्य भवतः खतमेतल्लाघवं मुहुरतीव रतेषु । क्षिप्तमायतमदर्शयदुर्व्या काञ्चिदाम जघनस्य महत्वम् ॥
Metre: स्वागता
प्रप्यते स्म गतचित्रकचित्रैश्चत्रमार्द्रनखलक्ष्मकपोलैः । दध्रिरेऽथ रभसच्युतपुष्पाः स्वबिन्दुकुसुमान्यलकान्ताः ॥
Metre: स्वागता
यद्यदेव रुरुचे रुचिरेभ्यः सुभ्रुवो रहसि त्तदकुर्वन् । आनुकूलिकतया हि नराणामाक्षिपन्ति हृदयानि तरुण्यः ॥
Metre: आर्यागीति (१२, २०, १२, २०)
प्राप्य मन्मथरसादतिभूमिं दुर्वहस्तनभराः सुरतस्य । शश्रमुः श्रमजलार्द्रललाटश्लिष्टकेशमसितायतकेश्यः ॥
Metre: स्वागता