संगताभिरुचितैश्चलितापि प्रागमुच्यत चिरेण सखीव । भूय एव समगंस्त रतान्ते ह्रीवधूभिरसहा विरहस्य ॥
Metre: स्वागता
प्रेक्षणीयकमेव क्षणमासन्ह्रीविभङ्गुरविलोचनपाताः । संभ्रमद्रुतगृहीतदुकूलच्छाद्यमानवपुषः सुरतान्ताः ॥
Metre: उपजातिः
अप्रभूतमतनीयसि तन्वी काञ्चिधाम्निपिहितैकतरोरु । क्षौममाकुलकरा विचकर्ष कान्तापल्लवमभीष्टतमेन ॥
Metre: आर्यागीति (१२, २०, १२, २०)
मृष्टचन्दनविशेषकभक्तिर्म्रषअटभूषणकदर्थितमाल्यः । सापराध इव मण्डनमासीदात्मनैव सुदृशामुपभोगः ॥
Metre: स्वागता
योषितः पतितकाञ्चनकाञ्चौ मोहनातिरभसेन नितम्बे । मेखलेव परितः स्म विचित्रा राजते वननखक्षतलक्ष्मीः ॥
Metre: स्वागता
भातु नाम सुदृशां दशनाङ्कः पाटलो धवलगणडतलेषु । दन्तवाससि समानगुणश्रीः संमुखोऽपि परभागमवाप ॥
Metre: आर्यागीति (१२, २०, १२, २०)
सुभ्रुवामधिपयोधरपीठं पीडनैस्त्रुटितवत्यपि पत्युः । णुक्तमौक्तिकलघुगुणशेषा हारयष्चिरभवत्गुरुरेव ॥
Metre: आर्यागीति (१२, २०, १२, २०)
विश्रमार्थमुपगूढमजस्रं यत्प्रियैः प्रथमरत्यवसाने । योषितामुदितमन्मथमादौ तद्द्वितीयसुरतस्य बभूव ॥
Metre: स्वागता
आस्तृतेऽभिनवपल्लवपुष्पैरप्यनारतरताभिरताभ्यः । दीयते स्म शयितुं शयनीये न क्षणः क्षणदयापि वधूभ्यः ॥
Metre: स्वागता
योषितामतितरां नखलूनं गात्रमुज्जवलतया न खलूनम् । क्षोभमाशु हृदयं नयदूनां रागवृद्धिमकरोन्न यदूनाम् ॥
Metre: स्वागता