कामिनः कृतरतोत्सवकालक्षेपमाकुलवधूकरसङ्गि । मेखलागुणविलग्नमसूयां दीर्घसूत्रमकरोत्परिधानम् ॥
Metre: स्वागता
अम्बरं विनयतः प्रियपाणेर्योषितस्य करयोः कलहस्य । वारणमिव विधातुमभीक्ष्णं कक्ष्यया च वलयैश्च शिशिञ्चे ॥
Metre: आर्यागीति (१२, २०, १२, २०)
ग्रन्थिमुद्ग्रथयितुं हृदयदेशे वाससः स्पृशति मानधनायाः । भ्रूयुगेण सपदि प्रतिपेदे रोमभिश्च सममेव विभेदः ॥
Metre: स्वागता
आशु लङ्घितवतीष्टकराग्रे नीवीमर्धमुकुलीकृतदृष्ट्या । रक्तवैणिक हताधरतन्त्रीमण्डलक्वणितचारु चुकूजे ॥
Metre: उपजातिः
आयताङ्गुलिरभूदतिरिक्तः सुभ्रुवां क्रशिमशालिनि मध्ये । श्रोणिषु प्रियकरः पृथुलासु स्पर्शमाप सकलेन तलेन ॥
Metre: स्वागता
चक्रुरेव ललनोरुषु राजीः स्पर्शलोभवशलोलकराणाम् । कामिनामनिभृतान्यपि रम्भास्त म्भकोमलतलेषु नखानि ॥
Metre: स्वागता
ऊरुमूलचपलेक्षणमघ्नन्यैर्वतंसकुसुमैः प्रियमेताः । चक्रिरे सपदि तानि यथार्थ मन्मथस्य कुसुमायुधनाम ॥
Metre: स्वागता
धैर्यमुल्बणमनोभवभवा वामतां च वपुरर्पितवत्यः । व्रीडितं ललित सौरतधार्ष्ट्यअस्तेनिरेऽभिरुचितेषु तरुण्यः ॥
Metre: स्वागता
पाणिरोधमविरोधवाञ्छं भर्त्सनाश्च मधुरस्मितगर्भाः । कामिनः स्म कुरुते करभोरुर्हअरि शुष्करुदितं च सुखऽपि ॥
Metre: आर्यागीति (१२, २०, १२, २०)
वारणार्थपदगद्गदवाचामीर्ष्यया मुहुरपत्रपया च । कुर्वते स्म सुदृशामनुकूलं प्रतिकूलिकतयैव युवानः ॥
Metre: आर्यागीति (१२, २०, १२, २०)