सितरुचिशयनीये नक्तमेकान्तमुक्तं दिनकरकरसङ्गव्यक्तकौसुम्भकान्ति । निजमिति रतिबन्धोर्जानतीमुत्तरीयं परिहसति सखी स्त्रीमाददानां दिनादौ ॥
Metre: मालिनी
प्लुतमिव शिशिरांशोरंशुभिर्यन्निशासु स्फटिकमयराजद्राजताद्रिस्थलाभम् । अरुणितमकठोरैर्वेश्म काश्मीरजाम्भःस्नपितमिव तदेतद्भानुभिर्भाति भानोः ॥
Metre: मालिनी
सरसनखपदान्तर्दष्टकेशप्रमोकं प्रणयिनि विदधाने योषितामुल्लसन्त्यः । विदधति दशनानां सीत्कृताविष्कृतानामभिनवरविभासः पद्मरागानुकारम् ॥
Metre: मालिनी
अविरतदयिताङ्गासङ्गसञ्चरितेन छुरितमभिनवासृक्कान्तिना कुङ्कुमेन । कनकनिकषरेखा कोमलं कामिनीनां भवति वपुरवाप्तच्छायमेवातपेऽपि ॥
Metre: मालिनी
सरसिजवनकान्तं बिभ्रदभ्रान्तवृत्तिः करनयनसहस्रं हेतुमालोकशक्तेः । अखिलमतिमहिम्ना लोकमाक्रान्तवन्तं हरिरिव हरिदश्वः साधु वृत्रं हिनस्ति ॥
Metre: मालिनी
अवतमसभिदायै भास्वताम्युद्गतेन प्रसभमुडुगणोऽसौ दर्शनीयोऽप्यपास्तः । निरसितुमरिमिच्छोर्ये तदीयाश्रयेण श्रियमधिगतवन्तस्तेऽपि हन्तव्यपक्षे ॥
Metre: मालिनी
प्रतिफलति करौघे संमुखावस्थितायां रजतकटकभित्तौ सान्द्रचन्द्रांशुगौर्याम् । बहिरभिहतमद्रेः संहतं कन्दरान्तर्गतमपि तिमिरौघं घर्मभानुर्भिनत्ति ॥
Metre: मालिनी
बहिरपि विलसन्त्यः काममानिन्यिरे यद्दिवसकररुचोऽन्तं ध्वान्तमन्तर्गृहेषु । नियतविषयवृत्तेरप्यनल्पप्रतापक्षतसकलविपक्षस्तेजसः स स्वभावः ॥
Metre: मालिनी
चिरमतिरसलौल्याद्बन्धनं लम्भितानां पुनरयमुदयाय प्राप्य धाम स्वमेव । दलितदलकपाटः षट्पदानां सरोजे सरभस इव गुप्तिस्फोटमर्कः करोति ॥
Metre: मालिनी
युगपदयुगसप्तिस्तुल्यसंख्यैर्मयूखैर्दशशतदलभेदं कौतुकेनाशुकृत्वा । श्रियमलिकुलगीतैर्लालितां पङ्कजान्तर्भवनमधिशयानामादरात्पश्यतीव ॥
Metre: मालिनी