शिशुपालवधम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

शिशुपालवधम्

Enable Parallel


Showing 51 to 60 of 77 verses
Verse 51
शैलाधिरोहाब्यसनाधिकोद्धुरैः पयोधरैरामलकीवनाश्रिताः । तं पर्वतीयप्रमदाश्चचायिरे विकासविस्फारितविभ्रमेक्षणाः ॥

Verse 52
सावज्ञमुन्मील्य विलोचने सकृत्क्षणं मृजेन्द्रेण सुषुप्सुना पुनः । सैन्यान्न यातः समयापि विव्यथे कथं सुराजंभवमन्मथाथवा ॥

Verse 53
उत्सेधनिर्धूतमहीरुहां ध्वजैर्जनावरुद्धोद्धतसिन्धुरंहसाम् । नागैरधिक्षिप्तमहाशिलं मुहुर्बलं बभूवोपरि तन्महीभृताम् ॥

Verse 54
श्मश्रूयमाणे मघुजालके तरोर्गजेन गण्डं कषता विधूनिते । क्षुद्राभिरक्षुद्रतराभिराकुलं विदश्यमानेन जनेन दुद्रुवे ॥

Verse 55
नीते पलाशिन्युचिते शरीरवत्गजान्तकेनान्तमदान्तकर्मणा । संचेरुरात्मान इवापरं क्षणात्क्षमारुहं देहमिव प्लवंगमाः ॥

Verse 56
प्रह्वानतीव क्वचिदुद्धतिश्रितः क्वचित्प्रकाशानथ गह्वरनापि । साम्यादपेतानिति वाहिनी हरेस्तदातिचक्राम गिरीन्गुरूनपि ॥
Metre: उपजातिः

Verse 57
स व्याप्तवत्या परितोऽपथान्यपि स्वसेनया सर्वपथीनया तया । अम्भोभिरुल्लङ्घित तुङ्गरोधसः प्रतीपनाम्नीः कुरुते स्म निम्नगाः ॥

Verse 58
यावद्व्यगाहन्त न दन्तिनां घटास्तुरङ्गमैस्तावदुदीरितं खुरैः । क्षिप्तं समीरैः सरितां पुरः पतज्जलान्यनैषीद्रज एव पङ्कताम् ॥

Verse 59
रन्तुं क्षतोत्तुङ्गनितम्बभूमयो मुहुर्व्रजन्तः प्रमदं मदोद्धताः । पङ्गं करापाकृतशैवलांशुकाः समुद्रगाणामुदपादयन्निभाः ॥

Verse 60
रुग्णोरुरोधः परिपूरिताम्भसः समस्थलीकृत्य पुरातनीर्नदीः । कूलंकषौघाः सरितस्थापराः प्रवर्तयामासुरिभा मदाम्बुभिः ॥