शिशुपालवधम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

शिशुपालवधम्

Enable Parallel


Showing 61 to 70 of 77 verses
Verse 61
पद्मैरनन्वीतवधूमुखद्युतो गताः न हंसैः श्रियमातपत्रजाम् । दूरेऽभवन्भोजवलयस्य गच्छतः शैलोपमातीतगजस्य निम्नगाः ॥
Metre: इन्द्रवंशा

Verse 62
स्नग्धाञ्जनश्यामतनूभिरुन्नतैर्निरन्तराला करिणां कदम्बकैः । सेना सुधाक्षालितसौधसंपदां पुरां बहूनां परभागमाप सा ॥

Verse 63
प्रासदशोभातिशयालुभिः पथि प्रभोनिवासाः पटवेश्मभिर्बभुः । नूनं सहानेन वियोगविक्लवा पुरः पुरश्रीरपि निर्ययौ तदा ॥
Metre: उपजातिः

Verse 64
वर्ष्म द्विपानां विरुवन्त उच्चकैर्वनेचरेभ्यश्चिरमाचचक्षिरे । गण्डस्थलाघर्षगलन्मदोदकद्रवद्रमस्कन्धनिलायिनोऽलयः ॥

Verse 65
आयामवद्भिः करिणां घटाशतैरधःकृताट्टालसपङ्क्तिरुच्चकैः । दूष्यैर्जितोदग्रगृहाणि सा चमूरतीत्य भूयांसि पुराण्यवर्तत ॥

Verse 66
उद्धूतमुच्चैर्ध्वजिनाभिरंशुभिः प्रतप्तमभ्यर्णतयाविवस्वतः । आह्लादिकह्लारसमीरणाहते पुरः पपाताम्भसि यमुने रजः ॥
Metre: उपजातिः

Verse 67
या घर्मभानोस्तनयापि शीतलैः स्वसा यमस्यापि जनस्य जीवनैः । कृष्णापि शुद्धेरधिकं विधातृभिर्विहन्तुमहांसि जलैः पटीयसी ॥

Verse 68
यस्या महानीलतटीरिव द्रुताः प्रयान्ति पीत्वा हिमपिण्डपाण्डुराः । कालीरपास्ताभिरिवानुरञ्जिताः क्षणेन भिन्नाञ्जनवर्ता घनाः ॥
Metre: इन्द्रवज्रा

Verse 69
व्यक्तं बलीयान्यदि हेतुरागमादपूरयत्सा जलधिं न जाह्नवी । गङ्गौघनिर्भस्मितशम्भुकन्धरासवर्णमर्णः कथमन्यथास्य तत् ॥

Verse 70
अभ्युद्यतस्य क्रमितुं जवेन गां तमालनीला गिरां धृतायतिः । सीमेव सा तस्य पुरः क्षणं बभौ बलाम्बुराशेर्महतो महापगा ॥
Metre: इन्द्रवज्रा

Showing 61 to 70 of 77 verses