स्थगिताम्बरक्षितितले परितस्तिमिरे जनस्य दृशमन्धयति । दधिरे रसाञ्जनमपूर्वतः प्रियवेश्मवर्त्म सुदृशो ददृशुः ॥
Metre: प्रमिताक्षरा
अवधार्य कार्यगुरुतामभवन्न भयाय सान्द्रतमसन्तमसम् । सुतनोः स्तनौ च दयितोपगमे तनुरोमराजिपथवेपथवे ॥
Metre: प्रमिताक्षरा
ददृशेऽपि भास्कररुचाह्नि न यः स तमीं तमोबिरभिगम्य तताम् । द्युतिमग्रहीद्ग्रहगणो लघवः प्रकटीभवन्ति मलिनाश्रयतः ॥
Metre: प्रमिताक्षरा
अनुलेपनानि कुसुमान्यबलाः कृतमन्यवः पतिषु धीपशिखाः । समयेन तेन चिरसुप्तमनोभवबोधनं सममबोधिषत ॥
Metre: प्रमिताक्षरा
वसुधान्तनिःसृतमिवाहिपतेः पटलं फणामणिसहस्ररुचाम् । स्फुरदंशुजालमथ शीतरुचः ककुभं समस्कुरुत माधवनीम् ॥
Metre: प्रमिताक्षरा
विशदप्रभापरिगतं विबभावुदयाचलव्यवहितेन्दुवपुः । मुखमप्रकाशदशनं शनकैः सविलासहासमिव शक्रदिशः ॥
Metre: प्रमिताक्षरा
कलया तुषारकिरणस्य पुरः परिमन्दभिन्नतिमिरौघजटम् । क्षणमभ्यपद्यत जनैर्न मृषा गगनं गणादिपतिमूर्तिरिति ॥
Metre: प्रमिताक्षरा
नवचन्द्रकाकुसुमकीर्णतमःकबरीभृतो मलयजार्द्रमिव । ददृशे ललाटतटहारि हरेर्हरितो मुखे तुहिनरश्मिदलम् ॥
Metre: प्रमिताक्षरा
प्रथमं कलाभवदथार्धमथो हिमदीधितिर्महदभूदुदितः । दधति ध्रुवं क्रमश एव न तु द्युतिशालिनोऽपि सहसोपचयम् ॥
Metre: प्रमिताक्षरा
उदमज्जि कैटभजितः शयनादपनिद्रपाण्डुरसरोजरुचा । प्रथमप्रबुद्धनदराजसुतावदनेन्दुनेव तुहिनद्युतिना ॥
Metre: प्रमिताक्षरा