अभिज्ञानशाकुन्तलम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

अभिज्ञानशाकुन्तलम्

Enable Parallel


Showing 131 to 140 of 165 verses
कथमनेन कितवेन विप्रलब्धास्मि । यूयमपि मां परित्यजथ । (इत्यनुप्रतिष्ठते)

(स्थित्वा) वत्स शार्ङ्गरव अनुगच्छतीयं खलु नः करुणपरिदेविनी शकुन्तला । प्रत्यादेशपरुषे भर्तरि किं वा मे पुत्रिका करोतु ।

(सरोषं निवृत्य) किं पुरोभागे स्वातन्त्र्यमवलम्बसे । (शकुन्तला भीता वेपते)

शकुतले ।

यदि यथा वदति क्षितिपस्तथा त्वमसि किं पितुरुत्कुलया त्वया ।अथ तु वेत्सि शुचि व्रतमात्मनः पतिकुले तव दास्यमपि क्षमम् ॥
Metre: द्रुतविलम्बितम्

तिष्ठ । साधयामो वयम् ।

भोस्तपस्विन्किमत्रभवतीं विप्रलभसे ।

कुमुदान्येव शशाङ्कः सविता बोधयति पङ्कजान्येव । वशिनां हि परपरिग्रहसंश्लेषपराङ्मुखी वृत्तिः ॥
Metre: आर्या

यदा तु पूर्ववृत्तमन्यसङ्गाद्विस्मृतो भवांस्तदा कथमधर्मभीरुः ।

भवन्तमेवात्र गुरुलाघवं पृच्छामि ।