रमणीयः खल्ववधिर्विधिना विसंवादितः ।
अथ कथं धीवरकल्पितस्य रोहितमत्स्यस्योदराभ्यन्तर आसीत् ।
शचीतीर्थं वन्दमानायाः सख्यास्ते हस्ताद्गङ्गास्रोतसि परिभ्रष्टम् ।
अत एव तपस्विन्याः शकुन्तलाया अधर्मभीरोरस्य राजर्षेः परिणये संदेह आसीत् ।
अथवेदृशोऽनुरागोऽभिज्ञानमपेक्षते । कथमिवैतत् ।
उपालप्स्ये तावदिदमङ्गुलीयकम् ।
(आत्मगतम्) गृहीतोऽनेन पन्था उन्मत्तानाम् ।
कथं नु तं बन्धुरकोमलाङ्गुलिं
करं विहायासि निमग्नमम्भसि । अथवा ।अचेतनं नाम गुणं न लक्षयेन् मयैव कस्मादवधीरिता प्रिया ॥
Metre: वंशस्थम्