कतमात्र तत्रभवती शकुन्तला ।
अनभिज्ञः खल्वीदृशस्य रूपस्य मोघदृष्टिरयं जनः ।
त्वं तावत्कतमां तर्कयसि ।
तर्कयामि यैषा शिथिलबन्धनोद्वान्तकुसुमेन केशान्तेनोद्भिन्नस्वेदबिन्दुना वदनेन विशेषतोऽपसृताभ्यां बाहुभ्यामवसेकस्निग्धतरुणपल्लवस्य चूतपादपस्य पार्श्व ईषत्परिश्रान्तेवालक्षिता सा शकुन्तला ।इतरे सख्याविति ।
निपुणो भवान् ।अस्त्यत्र मे भावचिह्नम् ।
स्विन्नाङ्गुलिविनिवेशो रेखाप्रान्तेषु दृश्यते मलिनः ।अश्रु च कपोलपतितं दृश्यमिदं वर्णिकोच्छ्वासात् ॥
Metre: आर्या
चतुरिके अर्धलिखितमेतद्विनोदस्थानम् । गच्छ । वर्तिकां तावदानय ।
आर्य माधव्य अवलम्बस्व चित्रफलकं यावदागच्छामि ।
साक्षात्प्रियामुपगतामपहाय पूर्वं चित्रार्पितां पुनरिमां बहु मन्यमानः । स्रोतोवहां पथि निकामजलामतीत्य जातः सखे प्रणयवान्मृगतृष्णिकायाम् ॥
Metre: वसन्ततिलका