अभिज्ञानशाकुन्तलम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

अभिज्ञानशाकुन्तलम्

Enable Parallel


Showing 161 to 170 of 275 verses
(आत्मगतम्)एषोऽत्रभवान्नदीमतिक्रम्य मृगतृष्णिकां संक्रान्तः । (प्रकाशम्) भोः अपरं किमत्र लेखितव्यम् ।

श्रूयताम्

कार्या सैकतलीनहंसमिथुना स्रोतोवहा मालिनी पातास्तामभितो निषण्णहरिणा गौरीगुरोः पावनाः । शाखालम्बितवल्कलस्य च तरोर्निर्मातुमिच्छाम्यधः शृङ्गे कृष्णमृगस्य वामनयनं कण्डूयमानां मृगीम् ॥
Metre: शार्दूलविक्रीडितम्

(आत्मगतम्) यथाहं पश्यामि पूरितव्यमनेन चित्रफलकं लम्बकूर्चानां तापसानां कदम्बैः ।

राजा वयस्य अन्यच्च । शकुन्तलायाः प्रसाधनमभिप्रेतमत्र विस्मृतमस्माभिः ।

किमिव ।

वनवासस्य सौक्मार्यस्य विनयस्य च यत्सदृशं भविष्यति ।

राजा

कृतं न कर्णार्पितबन्धनं सखे शिरीषमागण्डविलम्बिकेसरम् । न वा शरच्चन्द्रमरीचिकोमलं मृणालसूत्रं रचितं स्तनान्तरे ॥
Metre: वंशस्थम्

भोः किं नु तत्रभवती रक्तकुवलयपल्लवशोभिनाग्रहस्तेन मुखमवार्य चकितचकितेव स्थिता । (सावधानं निरूप्य दृष्ट्वा)

Showing 161 to 170 of 275 verses