आः एष दास्याः पुत्रः कुसुमरसपाटच्चरस्तत्रभवत्या वदनकमलमभिलङ्घते मधुकरः ।
भवानेवाविनीतानां शासितास्य वारणे प्रभविष्यति ।
युज्यते ।अयि भोः कुसुमलताप्रियातिथे किमत्र परिपतनखेदमनुभवसि ।
एषा कुसुमनिषण्णा तृषिता अपि सती भवन्तमनुरक्ता । प्रतिपालयति मधुकरी न खलु मधु विना त्वया पिबति ॥
Metre: उपजातिः
अद्याभिजातं खल्वेष वारितः ।
प्रतिषिद्धा अपि वामैषा जातिः ।
एवं भो न मे शासने तिष्ठसि । श्रूयतां तर्हि संप्रति ।
अक्लिष्टबालतरुपल्लवलोभनीयम् पीतं मया सदयमेव रतोत्सवेषु । बिम्बाधरं स्पृशसि चेद्भ्रमर प्रियायास् त्वां कारयामि कमलोदरबन्धनस्थम् ॥
Metre: वसन्ततिलका
एवं तीक्ष्णदण्डस्य किं न भेष्यति । (प्रहस्य ।आत्मगतम्)