(सोच्छ्वासम्)एष वचनीयान्मुक्तोऽस्मि ।
(स्वगतम्) दिष्ट्याकारणप्रत्यादेशी नार्यपुत्रः । न पुनः शप्तमात्मानं स्मरामि ।अथवा प्राप्तो मया स हि शापो विरहशून्यहृदयया न विदितः ।अतः सखीभ्यां संदिष्टास्मि भर्तुरङ्गुलीयकं दर्शयितव्यमिति ।
वत्से चरितार्थासि । तदिदानीं सहधर्मचारिणं प्रति न त्वया मन्युः कार्यः । पश्य ।
शापादसि प्रतिहता स्मृतिरोधरूक्षे भर्तर्यपेततमसि प्रभुता तव एव । छाया न मूर्छति मलोपहतप्रसादे शुद्धे तु दर्पणतले सुलभावकाशा ॥
Metre: वसन्ततिलका
वत्स कच्चिदभिनन्दितस्त्वया विधिवदस्माभिरनुष्ठितजातकर्मा पुत्र एष शाकुन्तलेयः ।
भगवन्नत्र खलु मे वंशप्रतिष्ठा । (इति बालं हस्तेन गृह्णाति)
तथाभाविनमेनं चक्रवर्तिनमवगच्छतु भवान् । पश्य ।
रथेनानुद्धातस्तिमितगतिना तीर्णजलधिः पुरा सप्तद्वीपां जयति वसुधामप्रतिरथः ।इहायं सत्त्वानां प्रसभदमनात्सर्वदमनः पुनर्यास्यत्याख्यां भरत इल्लोकस्य भरणात् ॥
Metre: शिखरिणी
भगवता कृतसंस्कारे सर्वमस्मिन्वयमाशास्महे ।