(ततः प्रविशत्याकाशयानेन रथाधिरूढो राजा मातलिश्च)
मातले अनुष्ठितनिदेशोऽपि मघवतः सत्क्रियाविशेषादनुपयुक्तमिवात्मानं समर्थये ।
(सस्मितम्)आयुष्मन्नुभयमप्यपरितोषं समर्थये ।
प्रथमोपकृतं मरुत्वतः प्रतिपत्त्या लघु मन्यते भवान् । गणयत्यवदानविस्मितो भवतः सोऽपि न सत्क्रियागुणान् ॥
Metre: वियोगिनी
मातले मा मैवम् । स खलु मनोरथानामप्यभूमिर्विसर्जनावसरसत्कारः । मम हि दिवौकसां समक्षमर्धासनोपवेशितस्य ।
अन्तर्गतप्रार्थनमन्तिकस्थं जयन्तमुद्वीक्ष्य हृतस्मितेन ।आमृष्टवक्षोहरिचन्दनाङ्का मन्दारमाला हरिणा पिनद्धा ॥
Metre: उपजातिः
किमिव नामायुष्मानमरेश्वरान्नार्हति । पश्य ।
सुखपरस्य हरेरुभयैः कृतं त्रिदिवमुद्धृतदानवकण्टकम् । तव शरैरधुना नतपर्वभिः पुरुषकेसरिणश्च पुरा नखैः ॥
Metre: द्रुतविलम्बितम्
अत्र खलु शतक्रतोरेव महिमा स्तुत्यः ।
सिध्यन्ति कर्मसु महत्वपि यन्नियोज्याः संभावनागुणमवेहि तमीश्वराणाम् । किं वाभविष्यदरुणस्तमसां विभेत्ता तं चेत्सहस्रकिरणो धुरि नाकरिष्यत् ॥
Metre: वसन्ततिलका