भगवन्नस्या दुहितृमनोरथसंपत्तेः कण्वोऽपि तावत्श्रुतविस्तारः क्रियताम् । दुहितृवत्सला मेनका इहैव उपचरन्ती तिष्ठति ।
(आत्मगतम्) मनोरथः खलु मे भणितो भगवत्या ।
तपःप्रभवात्प्रत्यक्षं सर्वमेव तत्रभवतः ।
अतः खलु मम नातिक्रुद्धो मुनिः ।
तथाप्यसौ प्रियमस्माभिः प्रष्टव्यः । कः कोऽत्र भोः । (प्रविश्य)
गालव इदानीमेव विहायसा गत्वा मम वचनात्तत्रभवते कण्वाय प्रियमावेदय यथा पुत्रवती शकुन्तला तत्शापनिवृत्तौ स्मृतिमता दुष्यन्तेन प्रतिगृहीतेति ।
यदाज्ञापयति भगवान् (इति निष्क्रान्तः)
वत्स त्वमपि स्वापत्यदारसहितः सक्युराखण्डलस्य रथमारुह्य ते राजधानीं प्रतिष्ठस्व ।