अभिज्ञानशाकुन्तलम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

अभिज्ञानशाकुन्तलम्

Enable Parallel


Showing 141 to 150 of 275 verses
(आत्मगतम्) कथं बुभुक्षया खादितव्योऽस्मि ।

प्रिये अकारणपरित्यागानुशयतप्तहृदयस्तावदनुकम्प्यतामयं जनः पुनर्दर्शनेन ।

(प्रविश्यापटीक्षेपेण चित्रफलकहस्ता)

इयं चित्रगता भट्टिनी । (इति चित्रफलकं दर्शयति)

(विलोक्य) साधु वयस्य । मधुरावस्थानदर्शनीयो भावानुप्रवेशः । स्खलतीव मे दृष्टिर्निम्नोन्नतप्रदेशेषु ।

अहो एषा राजर्षेर्निपुणता । जाने सख्यग्रतो मे वर्तत इति ।

राजा

यद्यत्साधु न चित्रे स्यात्क्रियते तत्तदन्यथा । तथापि तस्या लावण्यं रेखया किंचिदन्वितम् ॥
Metre: अनुष्टुप्

सदृशमेतत्पश्चात्तापगुरोः स्नेहस्यानवलेपस्य च ।

भोः इदानीं तिस्रस्तत्रभवत्यो दृश्यन्ते । सर्वाश्च दर्शनीयाः ।

Showing 141 to 150 of 275 verses