अभिज्ञानशाकुन्तलम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

अभिज्ञानशाकुन्तलम्

Enable Parallel


Showing 141 to 150 of 165 verses
मूढः स्यामहमेषा वा वदेन्मिथ्येति संशये । दारत्यागी भवाम्याहो परस्त्रीस्पर्शपांसुलः ॥
Metre: अनुष्टुप्

(विचार्य) यदि तावदेवं क्रियताम् ।

अनुशास्तु मां भवान् ।

अत्रभवती तवदाप्रसवादस्मद्गृहे तिष्ठतु । कुत इदमुच्यत इति चेत् । त्वं साधुभिरादिष्टपूर्वः प्रथममेव चक्रवर्तिनं पुत्रं जनयिष्यसीति । स चेन्मुनिदौहित्रस्तल्लक्षणोपपन्नो भविष्यति अभिनन्द्य शुद्धान्तमेनां प्रवेशयिष्यति । विपर्यये तु पितुरस्याः समीपनयनमवस्थितमेव ।

यथा गुरुभ्यो रोचते ।

वत्से अनुगच्छ माम् ।

भगाति वसुधे देहि मे विवरम् । (इति रुदती प्रस्थिता । निष्क्रान्ता सह पुरोधसा तपस्विभिश्च)

(राजा शापव्यवहितस्मृतिः शकुन्तलागतमेव चिन्तयति)

(नेपथ्ये)आश्चर्यमाश्चर्यम् ।

(आकर्ण्य) किं नु खलु स्यात् ।